SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ त्रिविधध्यानसिद्धिः takalatakarakarakararararararakarsankaratarakararakarakataranakasaarate संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसनो निवत्रो वा ।। १४६५ ।। चेयणमचेयणं वा वत्थु अवलंबिउं घणं मणसा । झायइ सुअमत्थं वा दवियं तप्पजए वावि ।। १४६६ ।। 'तत्थ य दो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यञ्च ध्यायति तदेतदभिधित्सुराह- 'संवरियासवदार'त्ति संवृतानि-स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क्व ध्यायति? 'अव्याबाधे अकंटए देसे'त्ति अव्याबाधे-गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले देशे भूभागे, कथं व्यवस्थितो ध्यायति?- 'काऊण थिरं ठाणं ठिओ निसण्णो निवन्नो वा' कृत्वा स्थिरं-निष्कम्पं (अव)स्थानम्-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थम्, चेतनं-पुरुषादि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीकृत्य घनं-दृढं मनसा-अन्तःकरणेन यद् ध्यायति, किम् ? तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्र-गणधरादिभिर्बद्धम् अर्थं वा-तद्गोचरम्, किंभूतमर्थमत आह-'दवियं तप्पजवे वावि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मेरालोचयति, न त्वर्थम्, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः ।। १४६४-१४६६ ।। अव. अधुना प्रागुक्तचोद्यपरिहारायाह तत्थ उ भणिज कोई झाणं जो माणसो परीणामो । तं न हवइ जिणदिटुं झाणं तिविहेवि जोगंमि ।।१४६७।। वृ० तत्र भणेद्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया मित्यस्य चिन्तार्थत्वात्, इत्थमाशङ्योत्तरमाह-'तं न भवति जिणदिटुं झाणं तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः? यस्माज्जिनैदृष्टं ध्यानं त्रिविधेऽपि योगे मनोवाक्कायव्यापारलक्षण इति गाथार्थः ।। १४६७ ।। अव. किं तु? कस्यचित् कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्त्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह वायाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुइ न य इअरे तत्थ दो नत्थि ।। १४६८ ।। वृ. 'वायाईधाऊणं' वातादिधातूनाम् आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कटः प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात्, 'न य इतरे तत्थ दो नत्थि त्ति' न चेतरौ तत्र द्वौ न स्त इति गाथार्थ: ।। १४६८ ।। एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो । तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा ।। १४६९।। ‘एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो व णवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनो: वाचि उत्कटायां कायोप्यस्ति, अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy