________________
व०
ध्यानशतकम्, गाथा-२ antaratatakstarakarsawakarasaradarsaasaradasataratatataaraaa
झाणं नियमा चिंता, चिंता भइया उ तीसु ठाणेसु । झाणे तदंतरम्मि उ, तबिवरीया व जा काइ ।। १६४१ ।। यन्मनःस्थैर्यरूपं ध्यानं तद् नियमात् चिन्ता । चिन्ता तु भक्ता विकल्पिता त्रिषु स्थानेषु। तथाहि- कदाचिद् ध्याने ध्यानविषया चिन्ता भवति यदा दृढाध्यवसायेन चिन्तयति । 'तदंतरम्मि उ' त्ति तस्य ध्यानस्यान्तरं तदन्तरं तस्मिन् वा चिन्ता भवेत्, ध्यानान्तरिकायामित्यर्थः । तद्विपरीता वा या काचिद् ध्याने ध्यानान्तरिकायां वा नावतरति किन्तु विप्रकीर्णा चित्तचेष्टा साऽपि चिन्ता प्रतिपत्तव्या।
अतो यदा दृढाध्यवसायेन चिन्तयति तदा चिन्ताध्यानयोरेकत्वम्, अन्यदा पुनरन्यत्वम् ।।१६४१ ।। भा. लेश्या द्विविधा-द्रव्यतो भावतश्च । तत्र द्रव्यलेश्यामुपरिष्टाद् वक्ष्यति । भावलेश्या त्वनन्तरोक्त एवात्मनो
मानसिकः परिणामः, स च मानसध्यानादनन्य इतिकृत्वाऽभिधीयते । ध्यानेन आर्त्तादिना करणभूतेन लेश्या कृष्णादिका भवति, यदा यादृशं प्रशस्तमप्रशस्तं वा ध्यानं भवति तदा तादृगेव प्रशस्ता अप्रशस्ता वा लेश्याऽपीति भावः । 'झाणंतरओ व' त्ति ध्यानान्तरम्-अदृढाध्यवसायरूपं चित्तं यद्वा ध्यानस्य ध्यानस्य चान्तरिका ध्यानान्तरमुच्यते, तत्र वा वर्तमानस्य षण्णां लेश्यानामन्यतरा लेश्या भवति । अथ ध्यानमिति कोऽर्थः? इत्याह- अध्यवसायो दृढो निश्चलोऽशुभो वा शुभो वा ध्यानमिति मन्तव्यम् । दृढश्चाध्यवसायोऽन्तर्मुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य कर्तुमशक्यत्वात्। यश्चादृढोऽध्यवसायः स सर्वोऽपि चिन्तेत्यभिधीयते न तु ध्यानम् ।। १६४० ।। आह-यद्येवं तर्हि चिन्ता ध्यानयोरन्यत्वमुपपन्नम् ? उच्यते- नायमेकान्तः, किन्तु स्यादेकत्वं स्यादन्यत्वम्। कथं पुनः? इति उच्यते । xxx ॥१६४१।। ।
-बृहत्कल्पसूत्रे ॥ B अव. इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्य:
देहमइजड्डसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं एयग्गो काउसग्गंमि ।। १४६२ ।। 'देहमतिजहुसुद्धी ति देहजाड्यशुद्धिः-श्लेष्मादिप्रहाणतः, मतिजाड्यशुद्धिस्तथावस्थितस्योपयोगविशेषतः, 'सुहदुक्खतितिक्खय'त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अणुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायइ य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुक्ललक्षणम्, एकाग्रः एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति। इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा
भेदेनोपन्यस्तेति गाथार्थः ।। १४६२ ।। अव. इह ध्यायति च शुभं ध्यानमित्युक्तम्, तत्र किमिदं ध्यानमित्यत आह
अंतोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं ।
तं पुण अट्ट रुदं धम्मं सुक्कं च नायव्वं ।। १४६३ ।। वृ. 'अंतोमुत्तकालं' द्विघटिको मुहूर्त्तः, भिन्नो मुहूत्तोऽन्तमुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैकाग्रता
भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान मितिकृत्वा [तत्त्वार्थे, अ०९, सूत्र २७] । तत् पुनरात रौद्रं धर्म शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः।।१४६३।। तत्थ य दो आइल्ला झाणा संसारवडणा भणिया । दुनि य विमुक्खहेऊ तेसिऽहिगारो न इयरेसिं ।। १४६४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org