________________
ध्यानाध्यानलक्षणम् antaraaaaranatantaratatataaraantaraaratatatatakarsaraswana
अत्राऽऽह-यः शुक्लध्यानाग्निदग्धकर्मेन्धनः स योगेश्वर एव, यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न, अभिप्रायापरिज्ञानात्, इह च शुक्लध्यानाग्निदग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, न त्वसौ योगेश्वरो वाक्कायातिशयाभावात्, स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि ।
तथा चोभयपदव्यभिचारे एकपदव्यभिचारेऽज्ञातज्ञापनार्थं च शास्त्रे विशेषणाभिधानमनुज्ञातमेव 'पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः ।।१।। साम्प्रतं ध्यानाध्यानलक्षणप्रतिपादनायाऽऽह -
जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं ।
तं होज्ज भावणा वा अणुपेहा वा अहव चिंता ।।२।। जं थिरं० गाहा ।। यद् इत्युद्देशः स्थिरम् निश्चलम्, अध्यवसानम् मन एकाग्रालम्बनमित्यर्थः, तद् इति निर्देशः, ध्यानम् प्राग्निरूपितशब्दार्थम्। ततश्चैतदुक्तं भवति-यत् स्थिरमध्यवसानं तद् ध्यानमभिधीयते। यच्चलम् इति यत् पुनरनवस्थितं [१] A स्थिरमध्यवसानं यत्, तद् ध्यानं चित्तमस्थिरम् ।
भावना चाप्यनुप्रेक्षा, चिन्ता वा तत् त्रिधा मतम् ।। १ ।। -अध्यात्मसारे, अ. १६ ।। ___B एकचिन्तानिरोधो य-स्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा, ध्यानसन्तानमुच्यते ।। ६६ ।।
-ध्यानदीपिकायाम।। २ / A अव. x x x ध्यानं पुनर्निश्चल एवाशुभ: शुभो वा आत्मनः परिणामः । तथा चाह
झाणेण होइ लेसा, झाणंतरओ व होइ अनयरी ।
अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि ।। १६४० ।। वृ. लेश्या द्विविधो-द्रव्यतो भावतश्च । तत्र द्रव्यलेश्यामुपरिष्टाद् वक्ष्यति । भावलेश्या त्वनन्तरोक्त
एव शुभाशुभरूपो जीवपरिणामः । सा चैवंविधा शुभाशुभपरिणामरूपा कृष्णादीनामन्यतमा 'लेस'त्ति भावलेश्या ध्यानेन वा भवति ध्यानान्तरतो वा । ध्यानान्तरं नाम-अदृढाध्यवसायरूपा चिन्ता, यद्वा ध्यानस्य ध्यानस्य चान्तरिका ध्यानान्तरमुच्यते । ध्यानं पुनः दृढो निश्चलोऽध्यवसायोऽशुभो वा शुभो वा मन्तव्यम् । स च निश्चलोऽध्यवसायो मानसो वाचिक: कायिकश्चेति त्रिधा द्रष्टव्यः । दृढश्चाध्यवसायोऽन्तर्मुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य
कर्तुमशक्यत्वात्। यश्चादृढोऽध्यवसाय: स सर्वोऽपि चिन्तेत्यभिधीयते ।। १६४० ।। अव. आह - यद्येवं तर्हि चिन्ता-ध्यानयोरन्यत्वमापन्नम्? उच्यते- नायमेकान्तः, किन्तु स्यादेकत्वं
स्यादन्यत्वम्। कथं पुनः? इति उच्यते
.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org