________________
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः
४९ गत्यानुपूव्र्यौ द्वे द्वे जातिनाम च यावच्चतुरिन्द्रियम् । आतपमुद्द्योतं स्थावरनाम च सूक्ष्मं च ॥१७८।। साधारणमपर्याप्तं निद्रानिद्रां च प्रचलाप्रचलां च । स्त्यानद्धि क्षपयति तदाऽवशेष यच्चाष्टानाम् ॥१७९।। विश्रम्य निवृत्तो द्वयोः समययोः केवले शेषयोः । प्रथमे निद्रां प्रचलां नाम्न इमाः प्रकृती: ॥१८०|| देवगत्यानुपूव्यौ वैक्रियप्रथमसंहननवर्जम् । अन्यतरत्संस्थानं तीर्थकराहारनामनी च ॥१८१।। चरमे ज्ञानावरणं पञ्चविधं दर्शनं चतुर्विकल्पम् । पञ्चविधमन्तरायं क्षपयित्वा केवली भवति" ॥१८२।। इति क्षपकश्रेणिप्राप्ताः श्रमणाश्चत्वारोऽपि केवलिनो जाताः । ते गत्वा जिनान्तिके केवलिपरिषद्यासीनाः ॥१८३॥ तत्रोपविष्ट इन्द्रः पृच्छति जगदुत्तमं जिनाधीशम् । स्वामिन् ! एभियूयं न वन्दिता हेतुना केन ? ||१८४|| कथयति प्रभुरेतेषां कूर्मापुत्रात् केवलं जातम् । एतेन कारणेनैभिर्न वन्दिता वयम् ॥१८५।। पृच्छति पुनरपीन्द्रः कदैष महाव्रती भावी ? । प्रभुणाऽऽदिष्टं सप्तमदिनस्य तृतीये प्रहरे ॥१८६।। इति कथयित्वा निवृत्तो जगदुत्तमजिनवरो दिनकर इव । तमस्तिमिराणि हरन् विहरन् महीतले जयति ॥१८७।। ततः कूर्मापुत्रो गृहस्थवेशं विमुच्य महासत्त्वः । गृह्णाति मुनिवरवेशं सविशेषं निर्जितक्लेशम् ॥१८८||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org