________________
४८
कूर्मापुत्रचरित्रम् पृच्छति चक्रवर्ती भगवन् ! वैताढ्यभरतवर्षे । किं कोऽप्यस्ति सम्प्रति चक्री वा केवली वापि ? ||१६८।। जल्पति जिनो न सम्प्रति भरते ज्ञानी नरेन्द्र ! चक्री वा । किन्तु कूर्मापुत्रो गृहवासे केवल्यस्ति ॥१६९।। चक्रधरः प्रतिपृच्छति भगवन् ! किं केवली गृहे वसति ? । कथयति प्रभुनिजाम्बा-पितृप्रतिबोधाय स वसति ॥१७०|| पृच्छन्ति चारणास्ते भगवन् ! अस्माकं केवलमस्ति ? । प्रभुणा कथितं युष्माकमपि केवलमस्त्यचिरेण ॥१७१।। स्वामिन् ! शिवपुरगामिन् ! अस्माकं केवलं कदाऽस्ति ? | इति कथिते जगदुत्तमनामजिनेन्द्रः समुद्दिशति ॥१७२।। यदा कूर्मापुत्रो युष्माकं कथयिष्यति स्वयमेव । महाशुक्रमन्दिरकथां तदा भोः ! केवलमस्ति ॥१७३।। इति श्रुत्वा ज्ञाततत्त्वास्त्रिगुप्तिगुप्ता जिनं नमस्यित्वा । तस्य समीपे प्राप्ताश्चत्वारस्तिष्ठन्ति तूष्णीकाः ॥१७४॥ ते तावत् तेनोक्ता भद्राः ! युष्माकं जिनेन नो कथितम् । महाशुक्रे यद् मन्दिरविमानसौख्यं समनुभूतम् ॥१७५।। इति वचनश्रवणसंजातजातिस्मरणेन चारणाश्चत्वारः । संस्मृतपूर्वजन्मानस्ते क्षपकश्रेणिमारूढाः ॥१७६।। "अन० मिथ्यात्वं मिश्रं सम्यक्त्वमष्ट नपुंसकस्त्रीवेदौ षट्कं च । पुंवेदं च क्षपयति क्रोधादिकांश्च संज्वलनान् ॥१७७||
१. अन० इति अन्तानुबन्धिकषायचतुष्कस्य संक्षिप्तरूपम् (पञ्चमकर्मग्रन्थस्य १९-१०० गाथे अत्रार्थे दृश्ये ।)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org