________________
४७
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः
प्राप्तेऽपि पटुत्वे दुर्लभो जिनधर्मश्रवणसंयोगः । गुरवो गुरुगुणा मुनयो येन न दृश्यन्ते सर्वत्र ॥१५८।। लब्धे धर्मश्रवणे दुर्लभं जिनवचनरत्नश्रद्धानम् । विषयकथाप्रसक्तमना घनो जनो दृश्यते येन ॥१५९।। श्रद्धाने संप्राप्ते क्रियाकरणं सुदुर्लभं भणितम् ।
येन प्रमादशत्रुर्नरं कुर्वन्तमपि वारयति ॥१६०॥ यत:
प्रमादः परमद्वेषी, प्रसादः परमो रिपुः । प्रमादो मुक्तिपूर्दस्यु, प्रमादो नरकायनम् ॥१६१॥ ते धन्याः कृतपुण्या ये लब्ध्वा सर्वसामग्रीम् । त्यक्त्वा प्रमादं चारित्रपालका यान्ति परमपदम्" ॥१६२॥ इति श्रुत्वा जिनोपदेशं सम्यक्त्वं केऽपि केऽपि चारित्रम् ।
भावेन देशविरति प्रतिपन्नाः केऽपि कृतपुण्याः ॥१६३।। अत्रान्तरे
कमला-भ्रमर-द्रोण-द्रुमाजीवा ये पुरा गताः शुक्रे । ते च्युत्वा भरतक्षेत्रे वैताढ्ये खेचरा जाताः ॥१६४॥ चत्वारोऽपि भुक्तभोगाश्चारणश्रमणान्तिके गृहीतचरणाः । तत्रैव च संप्राप्ता जिनेन्द्रमभिवन्द्य निविष्टाः ॥१६५।। तान् दृष्ट्वा पृच्छति चक्रधरो धर्मचक्रिणं नाथम् । भगवन् ! केऽमी चारणश्रमणाः सुमनसः कुतः प्राप्ताः ? ॥१६६॥ ततो जिनवर: प्रजल्पति नरेन्द्र ! शृणु चारणा एते । वैताढ्यभरतात् समागता मम नमनार्थम् ॥१६७।।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org