SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४६ कूर्मापुत्रचरित्रम् उत्कृष्टपदे लभ्यते विहरज्जिनानां तत्र सप्ततिशतम् । इति प्रासङ्गिकमुक्तं प्रक्रान्तं तद् निशमयत ॥१४७।। तत्र च महाविदेहे सुप्रसिद्ध मङ्गलावतीविजये । नगरी च रत्नसञ्चयनामा धनधान्याभिरामा ॥१४८।। तस्यां देवादित्यश्चक्रधरस्तेजोविजितादित्यः । चतुःषष्टिसहस्ररमणीरमणः परिभुनक्ति राज्यम् ।।१४९।। अन्यदिने विहरञ्जगदुत्तमनामधेयतीर्थकरः । वरतरुनिकरप्रधाने तस्या उद्याने समवसृतः ॥१५०।। वैमानिकज्यौतिषवरभवनैर्विनिर्मितं समवसरणम् । रत्नार्जुनरूप्यमयप्राकारत्रिकेण रमणीयम् ॥१५१।। श्रुत्वा जिनागमनं चक्री चक्र इव दिनकरागमनम् । संतुष्टमना वन्दनकृते समेतः सपरिवारः ॥१५२।। त्रिरादक्षिणप्रदक्षिणं कृत्वा वन्दित्वा जिनेन्द्रम् । यथायोग्ये प्रदेशे कृताञ्जलिरेष उपविष्टः ॥१५३।। ततो भविकजनानां भवसागरतारणैकतरण्या । धर्मं कथयति प्रभुः स सुधासमानया वाण्या ॥१५४।। "भो भोः शृण्वन्तु भविका: ! कथमपि निगोदमध्यतो जीवः । निर्गत्य भवैर्बहुभिर्लभते मनुजत्वम् ॥१५५।। मनुजत्वेऽपि हि लब्धे दुर्लभं प्राप्नुयात्क्षेत्रमार्यम् । उत्पद्यन्तेऽनेके यद् दस्युम्लेच्छकुलेषु ॥१५६।। आर्यक्षेत्रेऽपि खलु प्राप्ते पट्विन्द्रियत्वं दुर्लभम् । प्रायेण कोऽपि दृश्यते नरो न रोगेण रहिततनुः ॥१५७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy