________________
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः
तस्मात् केवलकमलाकलितो निजमातृ-तातोपरोधात् । तिष्ठति चिरं गृह एव स कुमारो भावचारित्री ॥१३६।। कूर्मापुत्रसदृक्षः कः पुत्रो मातृ-तातपदभक्तः । यः केवल्यपि स्वगृहे स्थितिश्चिरं तदनुकम्पया ? ॥१३७|| कूर्मापुत्रादन्यः को धन्यो यः स्वमातृ-तातयोः । बोधार्थं ज्ञान्यपि हि गृहे स्थितोऽज्ञातवृत्त्या ? ॥१३८|| गृहवाससंस्थितस्यापि कूर्मापुत्रस्य यत् समुत्पन्नम् । केवलज्ञानमनन्तं तत्पुनर्भावस्य दुर्ललितम् ॥१३९।। भावेन भरतचक्री तादृशशुद्धान्तमध्यमालीनः । आदर्शगृहनिविष्टो गृह्यपि स केवली जातः ॥१४०॥ वंशाग्रसमारूढो मुनिप्रवरान् कानपि दृष्ट्वा विहरतः । गृहिवेशेलापुत्रो भावेन केवली जातः ॥१४१॥ आषाढभूतिमुनेर्भरतेश्वरप्रेक्षणकं कुर्वतः । उत्पन्नं गृहिणोऽपि हि भावेन केवलं ज्ञानम् ॥१४२॥ मेरोः सर्षपस्य च यावन्मानं चान्तरं भवति । द्रव्यस्तव-भावस्तवान्तरं तावज्ज्ञेयम् ॥१४३।। उत्कृष्टं द्रव्यस्तवमाराध्य यात्यच्युतं यावत् । भावस्तवेन प्राप्नोत्यन्तर्मुहूर्तेन निर्वाणम् ।।१४४॥ अथ मनुजक्षेत्रमध्ये महाविदेहा भवन्ति पञ्चैव । एकैकस्मिन् विदेहे विजया द्वात्रिंशद् द्वात्रिंशत् ।।१४५।। द्वात्रिंशत्पञ्चगुणिता विजयास्तु शतं भवेयुः षष्टियुतम् । भरतैरावतक्षेत्रे सप्ततिशतं भवति क्षेत्राणि ॥१४६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org