________________
४४
कूर्मापुत्रचरित्रम् स पञ्चभिर्धात्रीभिर्हस्ताद् हस्तेऽङ्कादः । गृह्यमाणः कुमारः सर्वेषां वल्लभो जातः ॥१२५।। द्वासप्ततिं कलाः स्वयमेवाधीते स्वबुद्ध्या ।
अध्यापकश्च केवलं संप्राप्तस्तत्र साक्षित्वम् ।।१२६।। किन्तु
पूवभावान्त:कृतचेटबन्धनोच्छालनादिकर्मवशात् । स वामनो जातो द्विहस्तदेहप्रमाणधरः ॥१२७।। निरुपमरूपगुणेन तरुणीजनमानसानि मोहयन् । सौभाग्ययुक्तः क्रमेण स यौवनं प्राप्तः ॥१२८॥ तारुण्ये सर्वेषां विषयविकारा बहुप्रकारा अपि । स पुनर्विषयविरक्तः कूर्मापुत्रो ज्ञाततत्वः ॥१२९।। हरिहरब्रह्मादिसुरा विषयैर्वशीकृताश्च सर्वेऽपि । धन्यः कूर्मापुत्रो विषया अपि वशीकृता येन ॥१३०|| यत् तेन पूर्वजन्मनि सुचिरं परिपालितं सुचारित्रम् । तत् तस्यापि तारुण्ये विषयविरक्तत्वं जातम् ॥१३१।। अन्यदिने मुनीश्वरगुण्यमानं श्रुतं शृण्वतः । कुमारस्य तस्य विमलं जातिस्मरणं समुत्पन्नम् ॥१३२।। जातिस्मरणगुणेन संसारासारतां जानतः । क्षपकश्रेणिगतस्य च शुक्लध्यानं प्रपन्नस्य ॥१३३।। ध्यानानलेन कर्मेन्धननिवहं दुस्सहं दहतः । केवलज्ञानमनन्तं समुज्ज्वलं तस्य संजातम् ॥१३४।। यदि तावच्चारित्रमहं गृह्णीयां, ततो मम मातृ-तातयोः । मरणं भवेद् नूनं सुतशोकवियोगदुःखितयोः ॥१३५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org