SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः उक्तञ्च देशवैकालिके "तत्रेदं प्रथमं स्थानं महावीरेण देशितम् । अहिंसा निपुणा दिष्टा सर्वभूतेषु संयमः" ||११७|| उपदेशमालायाम् "षड्जीवनिकायदयाविवर्जितो नैव दीक्षितो न गृही । यतिधर्माद् भ्रष्टो भ्रश्यति गृहे (ही )न्द्राणां धर्मात्" ॥११८|| इति मुनिवरवचनानि श्रुत्वा घनगर्जितोपमानानि । देव्या मनोमोर: परमसमुल्लासमापन्नः ॥११९।। परिपूर्णेषु दिनेषु ततः संपूर्णदोहदा देवी । पुत्ररत्नं प्रसूता शुभलग्ने वासरे शुभे ॥१२०॥ तत्र चाऽवसरे "तत्र वाद्यन्ते तूराणि सुताड्यमानानि, गगनाङ्गणे गर्जन्ति गुरुरुताः । वरमङ्गलभुङ्गलभेरीशब्दाः, नफेर्याः श्रूयन्ते नवनिनादाः ॥१२१॥ बिरुदावलिं कथयति बन्दिवृन्दं, चिरकालं चतुरनरनन्दवृन्दम् । वरकामिन्यो नृत्यन्ति अतिसुरम्या, इत्युत्सवो भूतः पुत्रजन्मनि" ॥१२२॥ अम्बा-पितृभ्यां तस्य च धर्मश्रुतदोहदानुसारेण । नाम गुणाभिरामं प्रतिष्ठितं धर्मदेव इति ॥१२३|| उल्लापनेन कूर्मापुत्र इति प्रतिष्ठितमपरनाम । इति तस्य सार्थके द्वे प्रसिद्ध नामनी ॥१२४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy