SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४२ यतः कूर्मापुत्रचरित्रम् तत्र च कुमारजीवो देवायुः पालयित्वा कूर्मायाः । उदरे सुकृतपुण्यः सरसि हंस इवावतीर्णः || १०६ || रत्नेन रत्नखानिर्यथैव मुक्ताफलेन शुक्तिपुटी । तथा तेन गर्भेण सा सौभाग्यं समुद्वहति ॥ १०७॥ गर्भस्यानुभावेन धर्मागमश्रवणदोहदस्तस्याः । उत्पन्नः शुभपुण्योदयेन सौभाग्यसंपन्नः ॥ १०८ ॥ ततस्तेन नरपतिना षड्दर्शनज्ञायिनो नगरमध्ये । शब्दायिता जनैः कूर्माया धर्मश्रवणकृते ॥ १०९ ॥ स्नाताः कृतबलिकर्माणः कृतकौतुकमङ्गलादिविधिधर्माः । निजपुस्तकसंयुक्ताः संप्राप्ता राजभवने ॥११०॥ कृताशीः प्रदाना नरपतिना दत्तमानसंमानाः । भद्राऽऽसनोपविष्टा निजनिजधर्मं प्रकाशयन्ति ॥ १११ ॥ इतरेषां दर्शनिनां च धर्मं हिंसादिसंयुतं श्रुत्वा । जिनधर्मरता देव्यतीव खेदं समापन्ना ॥ ११२ ॥ ददातु दानं विदधातु मौनं, वेदादिकं चामि विदाङ्करोतु । 2 देवादिकं ध्यायतु नित्यमेव, न चेद् दया निष्फलमेन सर्वम् ॥११३॥ न सा दीक्षा, न सा भिक्षा, न तद्दानं, न तत् तपः । न तद् ध्यानं, न तन्मौनं, दया यत्र न विद्यते ॥११४॥ ततो नरपतिनाऽऽहूता जिनशासनसूरयो महागुणिनः । जिनसमयतत्त्वसारं धर्मस्वरूपं प्ररूपयन्ति ॥ ११५ ॥ तथाहि षड्जीवनिकायानां परिपालनमेव विद्यते धर्मः । येन महाव्रतेषु प्रथमं प्राणतिपातव्रतम् ॥ ११६ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy