SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः भ्रमरनरेन्द्रः कमलादेवी च द्वावपि गृहीतजिनधर्मी । अन्तशुभाध्यवसायौ तत्रैव च सुरवरौ जातौ ॥९५|| राजगृहं वरनगरं वरनयरङ्गन्मन्दिरमस्ति । । धनधान्यादिसमृद्ध सुप्रसिद्धं सकललोके ॥१६॥ तत्र च महेन्द्रसिंहो राजा सिंह इवारिकरिविनाशे । नाम्ना यस्य समराङ्गणे भज्यते सुभटकोटिः ॥९७।। तस्य च कूर्मादेवी देवीव रूपसम्पदास्ति । विनय-विवेक-विचारप्रमुखगुणाभरणपरिकलिता ॥९८।। विषयसुखं भुञ्जानयोस्तयोः सुखेन व्रजति कालः । यथा च सुरेन्द्र-शच्योरथवा यथा मन्मथ-रत्योः ॥९९।। अन्यदिने सा देवी निजशयनीये सुप्तजागृता । सुरभवनं मनोहरणं पश्यति स्वप्न आश्चर्यम् ॥१००॥ जाते प्रभातसमये शयनीयादुत्थाय सा देवी । राजसमीपं प्राप्ता जल्पति मधुराभिर्वाग्भिः ॥१०१।। आर्य ! ऽहं सुरभवनं स्वप्ने दृष्ट्वा प्रतिबुद्धा । एतस्य स्वप्नस्य च भविष्यति कः फलविशेषः ? ॥१०२।। इति श्रुत्वा हृष्टतुष्टो राजा रोमाञ्चाञ्चितशरीरः । निजमत्यनुसारेण कथयत्येतादृशं वचनम् ॥१०३॥ देवि ! त्वं परिपूर्णायां नवमास्यां सार्धसप्तदिनाधिकायाम् । बहुलक्षणगुणयुक्तं पुत्र प्राप्स्यसि जगन्नेत्रम् ॥१०४।। इति नरपतेर्वचनं श्रुत्वा हृष्टतुष्टनिजहृदया । वरनाथानुज्ञाता सा जाया निजगृहं प्राप्ता ॥१०५।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy