________________
४०
कूर्मापुत्रचरित्रम् पोतप्रदेशनिविष्टो वणिग् यावज्जलधिमध्यमायातः । तावच्च पूर्वदिशि समुद्गतः पूर्णिमाचन्द्रः ॥८४।। तं चन्द्रं दृष्ट्वा निजचित्ते चिन्तयति स वाणिजः । चिन्तामणेस्तेजोऽधिकमथवा मृगाङ्कस्य ? ॥८५॥ इति चिन्तयित्वा चिन्तारत्नं निजकरतले गृहीत्वा । निजदृष्ट्या निरीक्षते पुनः पुना रत्नमिन्दुं च ॥८६।। इत्यवलोकयतश्च तस्याभाग्येन करतलप्रदेशात् । अतिसुकुमारप्रवरं रत्नं रत्नाकरे पतितम् ।।८७|| जलनिधिमध्ये पतितो बहु बहु शोधयता तेनापि । किं कथमपि लभ्यते मणिः शिरोमणिः सकलरत्नानाम् ।।८८।। तथा मनुजत्वं बहुविधभवभ्रमणशतैः कथमपि लब्धम् । क्षणमात्रेण हारयति प्रमादभरपरवशो जीवः ॥८९।। ते धन्याः कृतपुण्या ये जिनधर्मं धरन्ति निजहृदये । तेषामेव मनुजत्वं सफलं श्लाघ्यते लोके" ॥९०॥ इति देशनां श्रुत्वा सम्यक्त्वं यक्षिण्या प्रतिपन्नम् । कुमारेण च चारित्रं गुरु गुर्वन्तिके गृहीतम् ॥९१।। स्थविराणां पादमूले चतुर्दशपूर्वीमधीते कुमारः । दुष्करतपश्चरणपरो विहरत्यम्बा-पितृभ्यां समम् ॥९२।। कुमारोऽम्बा-पितरौ त्रयोऽपि ते पालयित्वा चारित्रम् । महाशुक्रे सुरलोकेऽवतीर्णा मन्दिरविमाने ॥९३|| सा यक्षिण्यपि च्युत्वा वैशाल्यां च भ्रमरभूपतेः । भार्या जाता कमला नाम्ना सत्यशीलधरा ॥९४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org