SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५० कूर्मापुत्रचरित्रम् सुरविहितकनककमलेऽमले सम-लेपरहितनिजचित्तः । आसीनः स केवलिप्रवरो धर्म परिकथयति ॥१८९।। तथाहि "दानतप:शीलभावनाभेदाश्चत्वारो भवन्ति धर्मस्य । तेष्वपि भावः परमः परमौषधमशुभकर्मणाम् ॥१९०॥ दानानामभयदानं ज्ञानानां यथैव केवलं ज्ञानम् । ध्यानानां शुक्लध्यानं तथा भावः सर्वधर्मेषु ॥१९१।। कर्मणां मोहनीयं, रसना सव्वेषु इन्द्रियेषु यथा । ब्रह्मव्रतं व्रतेषु अपि तथा भावः सव्वधर्मेषु ॥१९२।। गृहवासेऽपि वसन्तो भव्याः प्राप्नुवन्ति केवलं ज्ञानम् । भावेन मनोहरेणात्र च वयमुदाहरणम्" ॥१९३।। इति देशनां श्रुत्वाऽवगततत्त्वौ च मातृपितरावपि । परिपालितचारित्रौ वरसत्त्वौ सुगति प्राप्तौ ॥१९४।। अन्येऽपि बहुभविका आकर्ण्य केवलिनो वचनानि । सम्यक्त्वं च चारित्रं देशचारित्रं च प्रतिपन्नाः ॥१९५।। इति बोधितबहुनर: कूर्मापुत्रः स केवलिप्रवरः । केवलिपर्यायं पालयित्वा सुचिरं शिवं प्राप्तः ॥१९६।। कूर्मापुत्रचरित्रं वैराग्यकरं शृणोति यो भविकः । स सर्वपापरहितोऽनन्तसुखभाजनं भवति ॥१९७|| श्रीहेमविमलशुभगुरुश्रीजिनमाणिक्यशिष्यराजेन । रचितं प्रकरणमेतद् वाच्यमानं चिरं जयतु ॥१९८।। ॥ कुम्मापुत्तचरिअस्स छायानुवादः सम्पूर्णः ॥ 000 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy