________________
कूर्मापुत्रचरित्रम् ततस्तया स्वशक्त्या केवलिपाश्र्वं प्रापितः कुमारः । अभिवन्द्य केवलिनं यथार्हस्थानमासीनः ॥६२।। पुत्रस्य स्नेहेन चिरेणावलोक्य तं कुमारम् । अभिरोदितुं प्रवृत्तौ तत्र स्थितौ मातृ-तातमुनी ॥६३।। कुमारोऽप्यजानन् केवलिना समधिकं समादिष्टः । वन्दस्व कुमार ! मातृ-तातमुनी इह समासीनौ ॥६४।। स पृच्छति केवलिनं प्रभो ! कथमनयोर्चतग्रहो जात: ? | तेनापि पुत्रवियोगादि कारणं तस्मै कथितम् ॥६५॥ इति श्रुत्वा स कुमारो मोरो यथा जलधरं प्रलोक्य । यथा वा चकोरश्चन्द्रं यथा चक्रश्चण्डभानुं वा ॥६६॥ यथा वत्सो निजसुरभि; सुरभि सुरभि यथैव कलकण्ठः । संजातः संतुष्टो हर्षवशोल्लसितरोमाञ्चः ॥६७|| निजमातृ-तातमुन्योः कण्ठे विलग्य रुदन् । एतया यक्षिण्या निवारितो मधुरवचनैः ॥६८।। निजवस्त्राञ्चलेन कुमारनयनान्यश्रुभृतानि । सा यक्षिणी विमाष्टि; अहो महामोहदुर्ललितम् ॥६९।। निजमातृ-तातदर्शनसमुल्लसत्प्रमोदभरभृतम् । केवलज्ञानिसकाशेऽमरी विनिवेशयति कुमारम् ॥७०|| अथ केवल्यपि सर्वेषां तेषामुपकारकारणं करोति । धर्मस्य देशनां; समयेऽमृतरससारणीसदृशीम् ॥७१॥ "यो भविको मनुजभवं लब्ध्वा धर्मप्रमादमाचरति । स लब्ध्वा चिन्तामणिरत्नं रत्नाकरे गमयति ॥७२।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org