________________
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः
३७ जम्बूद्वीपं छत्रं, मेरुं दण्डं प्रभवः कर्तुं ये ।
देवा अपि न ते शक्ताः, कर्तुमायुषः सन्धानम् ॥५२॥ . यदुक्तम्
नो विद्या न च भेषजं, न च पिता नो बान्धवा नो सुताः; नाभीष्टा कुलदेवता, न जननी स्नेहानुबन्धिन्विता । नाऽर्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं; नो शक्ताः सततं सुरासुरवराः, सन्धातुमायुः क्षमाः" ॥५३॥ इति केवलिवचनानि श्रुत्वाऽमरी विषण्णचित्ता सा । निजभवनं संप्राप्ता प्रनष्टसर्वस्वसार्थेव ॥५४॥ दृष्टा सा कुमारेण पृष्टा च सुकोमलैर्वचनैः । स्वामिनि ! मनसि विषण्णाऽद्य त्वं हेतुना केन ? ||५५|| किं केनपि दुःखिता ? किं वा केनापि न मताऽऽज्ञा ? | किं वा ममापराधेन कुप्रसन्ना त्वं जाता ? ॥५६|| सा किञ्चिदप्यकथयन्ती मनसि वहन्ती महाविषादभरम् । निर्बन्धात् पुनः पृष्टा वृत्तान्तं कथयति सकलम् ।।५७|| स्वामिन् ! मयाऽवधिना तव जीवितमल्पमेव ज्ञात्वा । आयु:स्वरूपं केवलिपार्वे पृष्टं च कथितं च ।।५८॥ एतेन कारणेन नाथ ! अहं दुःखशल्यितशरीरा । विधिविलसिते वक्रे कथं सहिष्ये तव विरहम् ? ॥५९।। कुमारो जल्पति यक्षिणि ! खेदं मा कुरु हृदयमध्ये । जलबिन्दुचञ्चले जीविते को मन्यते स्थिरत्वम् ? ॥६०॥ यदि ममोपरि स्नेहं धरसि तदा केवलिनः पार्वे । प्राणप्रिये ! मुञ्च करोमि येनात्मनः कार्यम् ॥६१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org