________________
३६
तौ केवलिवचनेनातीवाश्चर्यविस्मितौ जातौ । कथयतः, कथं देवा अपवित्रनरमपहरन्ति ? ॥४१॥
यदुक्तमागमे
कूर्मापुत्रचरित्रम्
" चत्वारि पञ्च योजनशतानि गन्धश्च मनुजलोकस्य । ऊर्ध्वं व्रजति येन न खलु देवास्तेनायन्ति ॥४२॥ पञ्चसु जिनकल्याणेष्वेवं महर्षितपोऽनुभावात् । जन्मान्तरस्नेहेन चागच्छन्ति सुरा इह" ॥४३॥ ततः केवलिना कथितं तस्या जन्मान्तरस्नेहादि । तौ ब्रूतस्ततः स्वामिन् ! अतिबलिकः कर्मपरिणामः ||४४|| भगवन् ! कदापि भविष्यत्यावयोः कुमारसङ्गमः कथमपि ? | तेनोक्तं; भविष्यति पुनर्यदेह वयमागमिष्यामः ||४५||
इति सम्बन्धं श्रुत्वा संविग्नौ कुमारमातृ -पितरौ च । लघुपुत्रं स्थापयित्वा राज्ये तदन्तिके चरणमापन्नौ ॥ ४६ ॥
दुष्करतपश्चरणपरौ परायणौ दोषवर्जिताहारे । निस्सङ्गरङ्गचित्तौ त्रिगुप्तिगुप्तौ च विहरतः ॥४७॥
अन्यदिने ग्रामानुग्रामं विहरंश्च स ज्ञानी । तत्रैव दुर्गिलवने समवसृतस्ताभ्यां संयुक्तः ॥ ४८॥ अथ यक्षिण्यवधिना कुमारस्यायुर्विज्ञाय स्तोकम् । तं केवलिनं पृच्छति कृताञ्जलिर्भक्तिसंयुक्ता ॥४९॥ भगवन् ! जीवितमल्पं कथमपि शक्यतेऽभिवर्धितुम् ? | ततः कथयति केवली स केवलकलितार्थविस्तारः ॥५०॥ा “तीर्थकराश्च गणधराश्चक्रधराः स-बल-वासुदेवाश्च । अतिबलिनोऽपि न शक्ताः कर्तुमायुषः सन्धानम् ॥५१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org