SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ३५ सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः इति वचनं श्रुत्वा वदनं दृष्ट्वा सुनयनं तस्याः । पूर्वभवस्य स्नेहस्तस्य मनसि समुल्लसितः ॥३२॥ कुत्राप्येषा दृष्टा पूर्वभवे परिचितश्चैतस्याः । इत्यूहापोहवशाज्जातिस्मरणं समुत्पन्नम् ॥३३|| जातिस्मरणेन तेन ज्ञात्वा पूर्वजन्मवृत्तान्तः । कथितः कुमारेण निजप्रियायाः पुरतः समग्रोऽपि ॥३४॥ ततो निजशक्त्याऽशुभानां पुद्गलानामपहारम् । शुभपुद्गलप्रक्षेपं कृत्वा सुरी तच्छरीरे ॥३५।। पूर्वभवान्तरभार्या लज्जादि विमुच्य भुङ्क्ते भोगान् । एवं विषयसुखानि द्वावपि विलसतस्तत्र स्थितौ ॥३६।। चतुर्विधभोग स्वरूपं स्थानाङ्गेऽप्युक्तम्"चतुर्भिः स्थानैर्देवानां संवासः प्रज्ञप्तः, तद्यथा-देवो नामैको देव्या सार्धं संवासमागच्छति, देवो नामैकच्छव्या सार्धं संवासमागच्छति, छविर्नामैका देव्या सार्धं संवासमागच्छति, छविर्नामैका छव्या सार्धं संवासमागच्छति इतश्च । अथ तस्याम्बा-पितरौ पुत्रवियोगेन दुःखितौ नित्यम् । सर्वत्रापि शोधयतश्च लभेते न हि शुद्धिमात्रमपि ॥३७॥ देवैरपहृतं नरैः प्राप्यते कथं वस्तु ? | येन नराणां सुराणां च शक्तावन्तरं गुरु ॥३८॥ अथ ताभ्यां दुःखिताभ्यामम्बा-पितृभ्यां केवली पृष्टः । भगवन् ! कथयत; आवयोः स पुत्रोऽस्ति कुत्र गतः ? ॥३९॥ ततः केवली प्रजल्पति; शृणुतं श्रवणैः सावधानमनसौ । युवयोः स पुत्रोऽपहतो व्यन्तर्या च ॥४०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy