________________
३४
कूर्मापुत्रचरित्रम् दृष्ट्वा तं कुमारं बहुकुमारोच्छालनैकतत्परम् । सा जल्पति हसित्वा किमनेन रङ्करमणेन ? ॥२१॥ यदि तावत् तव चित्तं विचित्रचित्रे चञ्चलं भवति । तदा मामनुधाव वचनमिदं श्रुत्वा स कुमारः ॥२२।। तां कन्यामनुधावति तद्वचनकुतूहलाकुलितचित्तः । तत्परतो धावन्ती सापि हि तं निजवनं नयति ॥२३|| बहुशालवटस्याधःपथेन पातालमध्यमानीतः ।
स पश्यति कनकमयं सुरभवनमतीव रमणीयम् ॥२४|| तच्च कीदृशम् ?
"रत्नमयस्तम्भपङ्क्तिकान्तिभरभृताभ्यन्तरप्रदेशम् । मणिमयतोरणधोरणितरुणपभाकिरणकर्बुरितम् ॥२५॥ मणिमयस्तम्भाधिष्ठितपुत्रिकाकेलिक्षोभितजनौघम् । बहुभक्तिचित्रचित्रितगवाक्षसन्दोहकृतशोभम्' ||२६|| एतदवलोक्य सुरभवनं भुवनचित्ताश्चर्यकरम् । अतिविस्मयमापन्नः कुमार इति चिन्तयितुं लग्नः ॥२७|| किमिन्द्रजालमेतत् स्वप्नः सुमनसि दृश्यतेऽथवा । अहं निजनगरीत इह भवने केनानीत: ? ॥२८॥ इति सन्देहाकुलितं कुमारं विनिवेश्य पल्यङ्के । विज्ञपयति वन्यतरवधूः स्वामिन् ! वचनं निशमय ॥२९।। अद्य मया ऋजुमते ! चिरेण कालेन नाथ ! दृष्टोऽसि । सुरभिवने सुरभवने निजकार्य आनीतोऽसि त्वम् ॥३०॥ अद्यैव मम मनोमनोरथः कल्पपादपः फलितः । यत् सुकृतसुकृतवशतोऽद्य त्वं मम मिलितोऽसि ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org