SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३३ सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः दुर्लभनामकुमार: सुकुमारो रम्यरूपजितमारः । तयोः सुतोऽस्ति गुणमणिभाण्डागारो बहुजनाधारः ॥१२॥ स कुमारो निजयौवनराजमदेन परान् बहुकुमारान् । कन्दुकमिव गगनतले उच्छालयन् सदा रमते ॥१३।। अन्यदिने तस्य पुरस्योद्याने दुर्गिलाभिधाने । सुगुरुः सुलोचननामा समवसृतः केवल्येकः ॥१४॥ तत्रोद्याने यक्षिणी भद्रमुखी नाम निवसति नित्यम् । बहुशालवृक्षवद्रुमाध:स्थितभवने कृतवासा ॥१५॥ केवलकमलाकलितं संशयहरणं सुलोचनं सुगुरुम् । प्रणम्य भक्तिभरेण पृच्छति सा यक्षिण्येवम् ।।१६।। भगवन् ! पूर्वभवेऽहं मानवती नाम मानव्यासम् । प्राणप्रिया परिभोग्या सुवेलवेलन्धरसुरस्य ॥१७॥ आयु:क्षयेऽत्र वने भद्रमुखी नाम यक्षिणी जाता । भर्ता पुनर्मम कुत्रोत्पन्नो नाथ ! आदिश ? ॥१८॥ ततः सुलोचनो नाम केवली मधुरवाण्या भणित भद्रे ! शृणु नगरेऽत्रैव द्रोणनरपतेः सुतः । उत्पन्नस्तव प्रियः सुदुर्लभो दुर्लभो नाम ॥१९॥ तं श्रुत्वा भद्रमुखी भद्रमुखी नाम यक्षिणी हृष्टा । मानवतीरूपधरा कुमारसमीपे संप्राप्ता ॥२०॥ १. अत्र 'निसुणसु' 'निसुणिअ' इत्येतयोः 'निशृणु निश्रुत्य' 'इत्यवधाय 'शृणु' 'श्रुत्वा' इति च्छायानुवादकारणान्वेषकैर्देशीनाममालायाः ४-२७, ६-२४ कारिके दृश्ये । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy