________________
१५३
परिशिष्टम्-२ विवेकमञ्जरीवृत्तौ कूर्मापुत्रर्षिकथानकम्
चारणश्रमणीभूय चत्वारोऽपि समाहिताः । जगदुत्तमतीर्थेशं तेऽपीयुर्वन्दितुं तदा ॥६८।। नत्वा विभुं निषण्णेषु तेषु पप्रच्छ चक्रभृत् । कुतोऽमी नाथ ! चत्वारो धर्मांशा इव चारणाः ? ॥६९॥ अमी भरतवैताढ्याद् नाथोक्ते चक्रभृज्जगौ । भरते तीर्थकृच्चक्री केवली वास्ति सम्प्रति ? ॥७॥ स्वाम्यूचे तीर्थकृच्चक्री केवली चात्र कोऽपि न । किन्तु राजगृहे कूर्मापुत्रोऽस्ति केवली गृही ॥७१॥ चयूचे स व्रती किं न स्वाम्यूचेऽवद्यवर्जितः । गृहेऽस्ति प्रतिबोधाय पित्रोर्दुष्प्रतिकारयोः ॥७२।। श्रुत्वेति चारणाः प्रोचु स्वामिन् ! केवलिनो वयम् । भविष्यामो न वा स्वामी प्रोचे भद्राः ! भविष्यथ ॥७३।। ते तु प्राह कदा नाथ ! नाथोऽप्याह महाशयाः ! । कूर्मापुत्राद् यदा वित्थ तन्मन्दिरकथानकम् ॥७४।। ततस्ते विस्मिता नत्वा स्वामिनं चारणर्षयः । कूर्मापुत्रं गता यावत्तं नत्वा मौनमासिरे ॥७५।। तावच्च तेन ते प्रोक्ता महासत्त्वाः ! जिनेन वः । नेदं मन्दिरमाख्यायि महाशुक्रगतं हि तत् ॥७६॥ श्रुत्वेति तेऽपि सञ्जातजातिस्मरणवर्त्मना । क्षपक श्रेणिमासाद्य केवलज्ञानिनोऽभवन् ॥७७।। भूयस्तीर्थकरं गत्वा तेऽस्थुः केवलिपर्षदि । ततो जिनं जगादेन्द्रोऽधुना किं नानमन्त्रमी ? ||७८|| स्वाम्यूचे केवलं कूर्मापुत्रादेषामजायत । शक्रोऽथाह कदा कूर्मापुत्रोऽसौ प्रव्रजिष्यति ? ॥७९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org