________________
१५४
कुम्मापुत्तचरिअम् स्वाम्यूचे सप्तमे ह्यस्मादह्नि यामे तृतीयके । भविष्यति हरे ! कूर्मापुत्रः श्रमणकेवली ॥८०॥ इतश्च भगवान् कूर्मापुत्रः स्वपितरौ क्रमात् । प्रबोध्य प्राव्रजत् तौ च प्रव्रज्यानुत्तरं गतौ ॥८१।। कूर्मापुत्रो भगवानपि सुरसंदोहपूजितो भुवनम् । परितः प्रबोध्य कैरवमिव शिवमूर्धानमिन्दुवत् प्राप ॥८२॥ इति कूर्मापुत्रर्षिकथानकं समाप्तम् ॥
000
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org