________________
१५१
परिशिष्टम्-२ विवेकमञ्जरीवृत्तौ कूर्मापुत्रर्षिकथानकम्
स्वप्नं तं भर्तुराचख्यौ कूर्मादेवी निशात्यये । राजा व्याख्यच्च ते देवि ! भावी श्रीभवनं सुतः ॥४४॥ ततोऽस्या हृष्टमनसो वहन्त्या गर्भमुत्तमम् । धर्मागम श्रुतौ जातसौहदो दोहदोऽभवत् ॥४५॥ प्रत्येकं भट्टमुख्यांश्चाहूय दर्शनिनोऽन्वहम् । तत्तद्धर्मागमं राज्ञी श्रावयामास भूपतिः ॥४६।। स्वं स्वं धर्मागमं ते तु पञ्चाप्युच्चैर्व्यपञ्चयन् । तं तु हिंसात्मकं राज्ञी श्रावं श्रावमखिद्यत ॥४७॥ ततो जैनान् मुनीन् भक्त्याऽऽहूय तद्धर्मदेशनाम् । श्रावयामास वसुधावासवस्तां क्षमाशचीम् ॥४८॥ जन्तुजातदयारूपं शृण्वन्ती सा जिनागमम् । संसारस्थापि मेने स्वं महानन्दपदे गतम् ॥४९॥ अथो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । राज्यसूत सुतं कल्पद्रुमवद् मेरुचूलिका ॥५०॥ राज्याङ्गानि विमुच्यान्यत् पूर्णपात्रं वितन्वता । तस्य जन्मोत्सवश्चक्रे सुमहीयान् महीभुजा ॥५१॥ ततः सूनुरसौ राज्ञा महोत्सवपूरस्सरम् । दोहदानुगुणं धर्मदेव इत्यभ्यधीयत ॥५२॥ कूर्मापुत्र इति ख्यातः पुनरुल्लापनैरयम् । धात्रीभिः पञ्चभिः पाल्यमानः शिशुवर्धत ॥५३॥ जनबन्धनखेलातः पुरौपाय॑त कर्म यत् । खर्वनाम्नाऽमुना जज्ञे द्विहस्तोच्चवपुस्तु सः ॥५४॥ कलाचार्याश्रयादेव स कलाः सकला अपि । स्वत एवाऽऽपदादर्शो मजामात्रादिव प्रभाम् ॥५५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org