________________
१५०
कुम्मापुत्तचरिअम् संविग्नोऽसावथ प्राह द्रष्टव्यः केवली स मे । इत्याग्रही स नीतश्च यक्षिण्यापि तदन्तिके ॥३२॥ नत्वा केवलिनं सोऽपि न्यषीदत् तत्पदान्तिके । तं वीक्ष्य पितरावस्याऽरोदिषातां च मोहतः ॥३३॥ केवली प्राह तं वत्स ! वन्दस्व पितराविमौ । किमेतदिति स प्रोचे केवल्याख्यच्च तत् तथा ॥३४॥ ततः कुमारः सोत्कण्ठं प्राग्वदालिङ्ग्य तौ स्यात् । । प्रवृत्तो रोदितुं कृच्छ्राद् यक्षिण्याऽयमवार्यत ॥३५॥ देवदूष्याञ्चलेनास्य संप्रमाW दृशौ तदा । न्यवेश्यत स पादाब्जमूले केवलिनोऽनया ॥३६॥ केल्यपि हि संसारविषनाशसुधारसम् । विदधे प्रतिबोधागावेशनं धर्मदेशनम् ॥३७॥ तद् निशम्य चिरं सम्यग् यक्षिणी श्राविकाऽभवत् । तामापृच्छय कुमारस्तु भेजे गुर्वन्तिके व्रतम् ॥३८॥ तप्यमानस्तपस्तीव्र सहमानः परीषहान् । अधीयानः कुमारर्षिः स चतुर्दशपूर्व्यभूत् ॥३९|| कालं कृत्वा यथाकालममी पितृकुमारकाः । महाशुक्रेऽभवन् देवा विमाने मन्दिराभिधे ॥४०॥ यक्षिणी सापि वैशाल्यां भूत्वा स्त्री कमलाभिधा । तत्राभूत्तद्भवेष्टेन भ्रमरेण समं सुरः ॥४१॥ इतश्चास्ति पुरं राजगृहं लीलागृहं श्रियः । राजा महेन्द्रसिंहोऽभूत्तत्र सिंह इवौजसा ॥४२॥ कूर्मादेवीति राज्यस्य तस्याः कुक्षाववातरत् । च्युत्वा कुमारदेवोऽथ भवनस्वप्नसूचितः ॥४३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org