________________
परिशिष्टम् - २ विवेकमञ्जरीवृत्तौ कूर्मापुत्रर्षिकथानकम् तयोः पुत्रवियोगार्तिविमुक्ताशनपानयोः ।
तदैव मन्त्रिणा प्रोक्तं केवल्यागमनं मुदा ॥ २०॥ ततस्तौ प्रावृषेण्याब्दाववाश्रुजलवर्षिणौ । गत्वा केवलिनं नत्वोपविश्य तमपृच्छताम् ॥२१॥ भगवन्! कुलदीपो नौ भानुर्भूनभसोरिव । कुमारो दुर्लभः क्वागात् कृपां कृत्वा निवेदय ? ||२२|| केवली प्राह यक्षिण्याऽपहृतो वां कुमारकः । कथं तावूचतुः केवल्याख्यच्चाखिलमेतयोः ॥२३॥ ऊचाते तौ कदा नौ स मिलिष्यत्याह केवली । यदेष्याम्यहं भूयस्तदा वां स मिलिष्यति ॥ २४॥ श्रुत्वेत्यथैतौ संविग्नौ दुर्लभानुजमङ्गजम् । राज्ये निवेश्य भेजाते व्रतं केवलिसंनिधौ ॥ २५ ॥ समं केवलिना देशानुदेशं तौ विजहृतुः । तप्यमानवधीयानौ सहमानौ परीषहान् ॥२६॥ विहारक्रमयोगेण कदाचिद् दुर्गमं पुरम् । केवली पुनरप्येत्य दुर्गिलोद्यानमास्थित ॥२७॥ यक्षिण्यवधिना मत्वा कुमारस्यायुरल्पकम् । साऽऽगत्य सादरं नत्वाऽपृच्छत् केवलिनं तदा ||२८|| प्रभो ! वर्धयितुं शक्यं स्वमल्पायुः कथञ्चन ? | केवली प्राह नार्हन्तोऽप्यायुः सन्धातुमीशते ॥ २९ ॥ निरुत्साहा करस्रस्तसर्वस्वेवाथ यक्षिणी । गतां स्वं भवनं पृष्टा सा कुमारेण सादरम् ||३०|| प्रिये ! किमसि खिन्नेव साऽब्रवीदेवमेव हि । ततोऽपि साग्रहं पृष्टा साऽऽख्यत् केवलिभाषितम् ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
१४९
www.jainelibrary.org