________________
१४८
कुम्मापुत्तचरिअम् सुवेलः कथमास्ते स स्वामिनिति निवेदय । अथाख्यत् केवली भद्रे ! च्युत्वा स तदनन्तरम् ।।८।। सुतो द्रोणनृपस्यास्ते जातस्ते वल्लभः खलु । आख्यया दुर्लभोऽप्येष सुलभोऽत्रैव पत्तने ॥९॥ श्रुत्वेति यक्षिणी हृष्टा नत्वा केवलिनं ततः । कृत्वा मानवतीरूपं सा ययौ दुर्लभान्तिकम् ॥१०॥ मानुषोद्रावणक्रीडापरं तं वीक्ष्य सा जगौ । निःसत्त्वैः किमभीभिश्चेच्चित्रं मामनुधाव तत् ॥११॥ दुर्लभोऽपि निशम्येति द्रुतं तामन्वधावत ।। धावन्ती तत्पुरः सापि व्यामोह्यान्यान् वने ययौ ॥१२॥ तत्र सा बहुशालाख्यवटकोटरवर्त्मना । गता पातालमन्वायि तेन सूचीव तन्तुना ॥१३॥ भूपभूर्भुवनं तत्र मणीमयमलोकत ।। आदाय सारमर्केन्दुरोचिषामिव निर्मितम् ॥१४॥ अथास्मै विस्मयस्मेरलोचनाय सुलोचना । निवेशिताय पल्य३ सार्घ्यपाद्यादि निर्ममे ॥१५॥ ततो भद्रमुखी स्मेरमुखी प्राञ्जलिराह तम् । दीपालीदिनवद् नाथ ! वीक्षितोऽसि चिराद् मया ॥१६।। तामालोक्य कुमारोऽपि क्वापीयं वीक्षिता मया । विमृशन्निति संस्मृत्य जाति तामन्वरज्यत ||१७|| पुद्गलानशुभान् हत्वा कृत्वा च शुभपुद्गलम् । तमथारंस्त सा स्नेहाद् गुणस्यूतेव तत्तनौ ॥१८॥ इतः कुमारपितरौ ज्ञात्वा तद्गमनं शुचा । विश्वगप्यगवेषिष्टां नालभेतां च तं क्वचित् ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org .