________________
परिशिष्टम्
[२]
बालचन्द्रसूरिप्रणीताया विवेकमञ्जरीवृत्तौ कूर्मापुत्रर्षिकथानकम् ॥ पुरासीद् दुर्गमपुरे द्रोणो नाम नरेश्वरः । " द्रुमादेवीभवश्चास्य सुतोऽभूद् दुर्लभाभिधः ॥१॥ स तु दुर्ललितः प्राप्तान् गृहे सेवादिकर्मणो । लोठयन् कन्दुकीकृत्य चेटांश्चिक्रीड सर्वदा ॥२॥ अन्यदा दुर्गिलोद्यानेऽभिधानेन सुलोचनः । तत्रैत्य समवासार्षीत् केवली सूरिरुत्तमः ॥३॥ तत्र भद्रमुखी नाम यक्षिण्येकाऽभवद् वने । बहुशालवटस्याधोभूमिभवनवासिनी ॥४॥ केवलालोकभास्वन्तं स समेत्य सुलोचनम् । भक्त्या प्रणम्य पप्रच्छ पद्मकोशीकृताञ्जलिः ॥५॥ अहं मानवती नाम मानुष्यपि पुरा प्रभो ! । वेलन्धरसुरस्याऽऽसं सुवेलाख्यस्य वल्लभा ॥६॥ तादृक्पुण्यक्षये स्वस्यायुःक्षये चागते समम् । मृत्वा भद्रमुखी नाम यक्षिण्यहमिहाऽभवम् ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org