________________
१४६
कुम्मापुत्तचरिअम् निशम्यैवमिमे जातजातिस्मृत्या शुभाशयाः । केवलज्ञानिनो जाताः क्षपकश्रेणिसंश्रयात् ॥७६।। जिनं गत्वाथ ते तस्थुः पुनः केवलिपर्षदि । हरिराह ततोऽर्हन्तं नानमन् किमिमेधुना ॥७७।। स्वाम्याहैषां समुत्पन्नं कूर्मापुत्राद्धि केवलम् । जगादेन्द्रः कदा कूर्मापुत्रो भावी महाव्रती ॥७८॥ सप्तमेऽह्नि दिनादस्मात्तृतीयप्रहरे हरे । ग्रहीष्यति मुनेर्वेषं कूर्मापुत्रो हि केवली ॥७९|| पितरौ स्वौ क्रमात् कूर्मापुत्रस्तु भगवानितः । संबोध्य प्रापयद्दीक्षां दाना इति महत्तरां ॥८०।। कूर्मापुत्रः केवली भव्यलोकान्, संबोध्य स्वैर्वाग्विलासैरनेकान् । शैलेश्या स्वं भूरिकर्मावशेष, क्षिप्त्वा क्षिप्रं प्राप मोक्षं चिदात्मा ॥८१।।
[शालिनी] कूर्मापुत्रचरित्रं पवित्रमाकर्ण्य भो जना भविनः । शिवसुखदायिनि धर्मे यत्नं कुरुतामिदं सततम् ॥८२॥ [आर्या]
इति कूर्मापुत्रर्षिकथानकं समाप्तम् ।।
000
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org