________________
त्रिविष्टपप्रापणो नाम सप्तमः सर्गः सद्ध्यानयोगेन निवार्य सूरिविषस्य तस्य प्रसरं निजाङ्गे । हुङ्कारनादं रचयाञ्चकार, प्रापुः प्रमोदं च समग्रभव्याः ॥२५॥ कराङ्गलीपल्लवदेशभाजो, विषस्य बिन्दूनथ सूरिराजः । छेदं नखघ्न्या स्वयमेव कृत्वा, प्रपातयामास पतद्ग्रहान्तः ॥२६।। विषार्तिमुक्तं स गुरुं प्रणम्य, सूरीश्वरं भक्तिभरेण योगी । गीतं जगौ चारुतरं तदीय-मध्यात्मरूपार्थयुतं तदैव ॥२७॥ स योगिनं सूरिरसौ जगाद, कारुण्यपाथोनिधिरित्थमेव । इतो दिनात् सप्तमके दिने ते, पश्यामि मृत्युं भुजगादमुष्मात् ।।२८।। केन्थापुरे सोऽथ जगाम योगी, तत्रान्ययोगीन्द्रकृतोरुवादः । अवाप तस्मादुरगाच्च मृत्युं, निवेदिते सूरिवरेण घस्त्रे ॥२९।। श्रीषेणसूरेरिति सत्प्रभाव-विभूतिमालोक्य स सोलजन्मा । भृशं चमत्कारभरं दधार, हर्षप्रकर्षं च निजाशयान्तः ॥३०॥ श्रीसङ्घयात्राप्रमुखानि धर्म-कार्याण्यनेकानि तदीयवाक्यात् । स साधयामास चिरं धरित्री-शृङ्गारहार: कलिनाशकारी ॥३१॥ अथ प्रपूर्यायुरयं स्वकीयं, श्रीषेणसूरेः श्रुतधर्मतत्त्वः । जगज्जनोद्धारकरः किल यां, ययौ हरेर्लोचनपावनाय ॥३२॥
[वसन्ततिलकावृत्तम्] वैरोचनोऽद्य सुकृती शिबिरद्य चाद्य, जीमूतकेतुतनयोऽद्य च विक्रमार्कः ।
१. कन्यकोटाख्यपुरे । २. बलिराजः । ३. तन्नामा राजा । ४. जीमूतवाहनः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org