________________
श्रीजगडूचरितं महाकाव्यम् [वसन्ततिलकावृत्तम्] श्रीषेणसूरिचरणाम्बुजराजहंसः,सद्दानकीर्तिभरनिर्जितकल्पवृक्षः । चक्रे स्वचेतसि जिनाधिपतिप्रणीत-तत्त्वैकचिन्तनधियं सुकृती सदैव ॥१७॥
[उपजातिवृत्तम्] भद्रेश्वरे भद्रजनाग्रतोऽथ, श्रीषेणसूरौ वदति प्रभाते । सम्यक् स्वरूपं च सरीसृपाणां, समागतः कश्चन दुष्टयोगी ॥१८॥
[उपेन्द्रवज्रावृत्तम्] स मत्सरी नागमतोरुवाद, समं मुनीन्द्रेण चकार तेन । समप्रसभ्येषु विचक्षणेषु, तदा निषण्णेषु, चमत्कृतेषु ॥१९॥
[उपजातिवृत्तम्] विषोल्बणेन प्रहितेन तेन, केनापि नागेन च दश्यते स्म । कराङ्गलीपेशलपल्लवाग्रं, श्रीषेणसूरेरमलाशयस्य ॥२०॥ तस्मिन् गते सूरिवरस्तदानीं, जगाद भव्यानिति तीव्रदुःखान् । अहं विशाम्यत्र हि गर्भगेहे, ध्यानं, प्रकर्तुं विषनाशहेतोः ॥२१॥ सम्मोहिनी साधयितुं स्वविद्यां, कपालमीहेत ममैष योगी । आकृष्टखड्गैरिह तद्भवद्भि-रि नियन्त्र्य स्फुटमेव भाव्यम् ॥२२॥ हुङ्कारनादश्रवणान्ममाशु, द्वारं समुद्घाट्य च गर्भधाम्नः । विलोकयध्वं सुकृतैककामा, यूयं च मामम्बुरुहासनस्थम् ॥२३॥ प्रपेदिरे तेऽस्य वचस्तथेति, स गर्भगेहान्तरुपेत्य सद्यः । नियोजयामास मनः स्वकीयं, शुद्धे परब्रह्मणि मुक्तदोषः ॥२४॥
१. सर्पाणाम् ।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org