________________
त्रिविष्टपप्रापणो नाम सप्तमः सर्गः
अथ भद्रमन्दिरमुपेत्य कृती, जगडूर्जगत्त्रयविसारियशाः । निजसङ्घलोकगुरुभक्तिविधे-रपुनीत नीतिललितः स्वकुलम् ।।७।।
__ [स्थोद्धतावृत्तम्] वीसलक्षितिपतेनियोगतो, नागडः शुचिरियाय मन्त्रिराट् । तत्र सोलतनयेन निर्मल-स्नेहवैभववताथ सत्कृतः ॥८॥ भूभुजोऽस्य जलधेस्तटे तरी:, सत्तुरङ्गमवती समन्ततः । उन्ममज्ज मरुतातिवेगतो, भङ्गमाप च तपात्ययागमे ॥९॥ विंशतिस्तु तुरगा मृता जला-देक एव तुरगः स जीवितः । तीरमाप किल तद्ग्रहोद्यम, निर्ममे झटिति नागडः सुधी ॥१०॥ भूपमन्त्रिवरमाह सोलभू-र्मुच्यतां मम हयेऽभिलाषिता । अन्यवस्तुनि विधीयते मनो, नो कदापि कृतिना त्रपिष्णुना ॥११॥ नागडोऽपि गदति स्म हे कृतिन् ! मत्प्रभोस्तुरग एष निश्चितम् । अन्यथेदमपि चेत् तदा ददे, विंशति हयवरांस्तवाप्यहम् ॥१२॥ एवमस्त्विति निगद्य सोलभू-जिनस्तदनुकण्ठदेशतः । चर्मणा कलितमाददे स्वयं, पत्रमाशु निजनामभूषितम् ॥१३॥ न्यकृताननमथो तदीक्षणा-दाह नागडमिति प्रसन्नहृत् ।
अब्धिरेष मम कामपि, श्रियं नैव रक्षति वरप्रदः क्वचित् ॥१४॥ नार्थये खलु पणीकृतान् हयान् विंशतिं द्विजवर ! त्वदग्रतः । आवयोर्गुरुतरा विजृम्भतां, प्रीतिरेव शुचिसौख्यकारिणी ॥१५॥ वीसलक्षितिपधीसखोत्तमः, सोलपुत्रवचनेन चारुणा । प्रीतिमाप नितरां निजाशये, को न हृष्यति विवेकिनां गुणैः ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org