________________
त्रिविष्टपप्रापणो नाम सप्तमः सर्गः
[प्रमिताक्षरावृत्तम्] विरचय्य वृष्टिमथ वारिधरा, जगतीतलेऽपि सकले रुचिराम् । शमयाम्बभूवुरुरुदुःसमय-प्रभवं भयं तनुमतां सपदि ॥१॥ अम्भोधरा नर्तितनीलकण्ठाः, स्वगर्जनच्छद्ममृदङ्गनादाः । सच्चातकव्रातरवच्छलेन, जगुस्तरां श्रीजगडूयशांसि ॥२॥
[उपजातिवृत्तम्] धाराधरा गर्जनकैतवेन सोलात्मजं प्राहुरिति प्रमोदात् । त्वमेव सञ्जीवनदानशीलो वर्षत्रयं प्रीणयति स्म पृथ्वीम् ॥३॥
[प्रमिताक्षरावृत्तम्] अतिधान्यवृद्धिकलिता पृथिवी, समजायताम्बुधरवर्षणतः । मुमुदे जनस्तदनु चारुतरं, जगडूयशः प्रतिदिनं प्रवदन् ॥४॥
___ [ द्रुतविलम्बितवृत्तम्] परमदेवगुरुं त्रिदिवाङ्गना-जनविलोचनसम्मदकारकम् । समवगत्य ततो जगडूः कृती, स्वहृदि शोकभरं नितरां दधौ ॥५॥
[प्रमिताक्षरावृत्तम्] विमलाचले स किल रैवतके-ऽखिलसङ्घलोककलितः सुकृती । अगमत् पवित्रितधनप्रकरः, शुचिपात्रदानकलया सततम् ।।६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org