________________
४८
श्रीजगडूचरितं महाकाव्यम् राज्ञे प्रतापसिंहाय, काशीनाथाय सोलभूः । द्वात्रिंशतं सहस्राणि, प्रददौ कणमूटकान् ॥१२७॥ स्कन्धिलाय महीभत्रे, चक्रिख्यातिभृते तदा । स द्वादशसहस्राणि, प्रददौ कणमूटकान् ॥१२८।। द्वादशाभ्यधिकं दान-शालाशतमुदारधीः । जगडूः सुकृताधारो, जगज्जीवातुरातनोत् ॥१२९॥ स्वर्णदीनारसंयुक्ता-लञापिण्डान् स कोटिशः । निशायामर्पयामास, कुलीनाय जनाय च ॥१३०॥ नवनवतिसहस्रयुता, नवलक्षा धान्यमूटकानां सः । अष्टादशरैकोटी-रर्थिभ्योऽदत्त दुःसमये ॥१३१।।
[आर्यावृत्तम्] निःसीमदानदाता, हरिकान्ताहृदयहारशृङ्गारः । दुर्भिक्षसन्निपाते, जगडूस्त्रिकटूपमां भेजे ॥१३२।। पराभवो नलस्यापि, कलिना येन निर्ममे । सोऽप्युच्चैर्जगडूकेन, त्याजितो जगतीतलम् ॥१३३॥
[अनुष्टुभवृत्तम्] स साधर्मिकवात्सल्य-कर्मनिर्मलमानसः । इतरेष्वपि देशेषु, पुरुषैः स्वैरचीकरत् ॥१३४॥
१. तत्र दुःसमये य: कुलीनां याचितुं लज्जते तस्मै जगडू[सद्रव्यं ददातीत्यर्थः सूचितः । २. त्रयाणां शुण्ठपिप्लीमरीचानां समाहारस्त्रिकटु तदुपमा ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org