________________
४६
श्रीजगडूचरितं महाकाव्यम् [शार्दूलविक्रीडितवृत्तम्] वृष्टिं वारिधरस्य भानु-शशिनोरालोकमब्धेस्तथा । सेवां रोहणभूभृतोद्गमफलानीहेत भूयो जनः ॥ दारिद्रयव्रजदारणं तव धनं सम्प्राप्य भूमीतले । श्रीमत्सोलकुलैकमण्डन ! पुनः कुर्वीत कोऽर्थी स्पृहाम् ॥११५॥ स्थेमक्षेमवती सुवैभववती भूरिप्रतिष्ठावती । सत्सौभाग्यवती भृशं नयवती सद्धर्मलीलावती ॥ कीर्तिस्तोमवती महोदयवती नित्यं तथा धीमती । कामं कान्तिमती सती विजयतां सोलस्य शाखा चिरम् ॥११६।। लीलादारितपीठदेवनिबिडाहङ्कार ! ते सद्यशःप्रासादे कलितोन्नतौ चिरतरं लक्ष्म्याः सनाथेऽनघे । भानुः काञ्चनकुम्भति द्युशिखरी प्रोद्दामरैर्दण्डति । स्वःसिन्धोरपि निर्मलध्वजपटत्यम्बुप्रवाहः स्फुरन् ॥११७॥
[इन्द्रवज्रावृत्तम्] धन्वन्तरि वलयेऽवतीर्णो, भूयोऽपि सोलात्मभुवच्छलेन । धान्यौषधि सङ्ग्रहवानिहन्तुं, दुर्भिक्षरोगं जनतार्तिहेतुम् ॥११८||
[शार्दूलविक्रीडितवृत्तम्] हे ब्रह्मस्तव साधु बुद्धिललितं मन्यामहे सर्वदा । श्रीश्रीमालकुले कलङ्कविकले येन त्वया निर्ममे ॥ सोऽयं श्रीजगडूरुदारचरितो नो चेद्धरित्रीतलं । दुर्भिक्षव्यसनेन पीडितमिदं कस्मात् स्थिरत्वं श्रयेत् ॥११९॥
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org