________________
सकलजनसज्जीवनो नाम षष्ठः सर्गः
[शार्दूलविक्रीडितवृत्तम्] काम्यां कामपि वेत्सि नो यदि कलां सेवां यदि क्ष्मापते! वेत्सि व्यवसायतां न यदि वा नो वेत्सि कृष्यादिकम् । भर्तस्तहि कथं जडाशय ! पुनर्नो वेत्सि विश्वम्भराभारोद्धारधुरीणमद्भुतमतिं तं चापि सोलात्मजम् ॥११०॥
[आर्यावृत्तम्] निखिलमपि भुवनमेतद्-दृष्टं दुःसमयदन्दशूकेन । प्रचुरान्नदानसुधया, जगडूरुज्जीवयामास ॥१११॥
[शार्दूलविक्रीडितवृत्तम्] मान्धाता न पुरूरवा न न शिबिर्गाधिर्न नो हैययो । दौष्यन्तिन भगीरथो न न मनु पि त्रिशङ्कोः सुतः ॥ नो कर्णो जनमेजयो न न वसुर्यत् प्राप भूमीतले । तद्भेजे जगडूः पितामहपदं भूमीभुजां पालनात् ॥११२॥
[अनुष्टुभ्वृत्तम्] युगत्रयाधिकाचारो, जगडू भवत् कलौ ।। दुर्भिक्षेऽखिलभूपाला येन लौकैः सहोद्धृताः ॥११३।। पातकं पूर्वगङ्गाया, एकं गच्छति धीमताम् । त्वत्तः पश्चिमगङ्गाभा-दारिद्रयमपि नश्यति ॥११४॥
१. तन्नामा सूर्यवंशीयराजा । २. तन्नामा चद्रवंशीयराजा । ३. कार्तवीर्यराजः । ४. भरतराजः । ५. हरिश्चन्द्रराज ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org