________________
४४
श्रीजगडूचरितं महाकाव्यम् [शार्दूलविक्रीडितवृत्तम्] गर्वप्रोडुरपीठदेववनितानेत्राञ्जनश्रीहरो । हम्मीरप्रतिवीरविक्रमकथासर्वस्वलापोल्बणः ॥ माद्यन्मुद्गलधामचण्डमहिमप्रध्वंसनोष्णद्युतिः । श्रीमद्गुर्जरराज्यवर्धनकरः सोलात्मजः स्ताज्जयी ॥१०४।। कल्पद्रुचिन्तामणिकामधेनु-समन्वितैरप्यमरैरहारि। दौस्थ्यं हि यन्नाखिलभूतलस्य, तल्लीलया श्रीजगडूभिनत्ति ॥१०५॥
[उपजातिवृत्तम्] अज्ञानवद्भ्यः सुरधेनुरत्न-महीरुहेभ्यो जगदुद्दिधीर्षुः । आदाय दानं निदधे विधाता, वामेतरे श्रीजगडूकराब्जे ॥१०६||
1 [वसन्ततिलकावृत्तम्] अम्भोरुहेषु सकलेषु सुरस्रवन्त्या, यस्य प्रतापतपनेन विकस्वरेषु । नित्यं विदन्ति न हि सप्तमहर्षयोऽपि, सायन्तनं समयमुत्तमभावभाजः ॥१०७॥
[शार्दूलविक्रीडितवृत्तम्] न श्लाघ्यः स युधिष्ठिरोऽयमवदद्योऽलीकमेवाहवे । द्रोणाचार्यवधाय निर्मितमतिः सत्यप्रतिज्ञोऽपि च ॥ धन्यः सोऽपि न नैषधिनिजवधूर्येनोज्झिता कानने । तत्सत्ये जगदुद्धृतावपि चिरं वोऽस्तु सोलात्मभूः ॥१०८।।
[अनुष्टुभवृत्तम्] विक्रमादित्यभूपेन, पुरा भूतलमुद्धृतम् । अधुना जगडूकेनो-दध्रियते च गतांहसा ॥१०९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org