SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सकलजनसज्जीवनो नाम षष्ठः सर्गः नष्टेषु दिक्करिषु पौत्रिणि मुक्तवीर्य्ये | शेषे नितान्तनतशीर्षपरम्परेऽपि ॥ पङ्कान्तरे क्वचन खेलति कूर्मराजे । भूमिं बिभर्ति जगडूः पुनरेक एव ॥९९॥ [ वैतालीयवृत्तम् ] भजते जगतीतले तुलां, जगडूकस्य न तस्य कश्चन । सकलं जनमुद्दधार यः, किल दुर्भिक्षयमाननान्तरात् ॥१००॥ [ आर्यावृत्तम् ] जगडूरूपेण हरि-दुर्भिक्षमहार्णवाभिभूताम् । द्राग् बिभराम्भूव भूमिं भूयः सम्भूतकारुण्यः ॥१०१॥ [शार्दूलविक्रीडितम् ] श्रीश्रीमालकुलैकभूषण ! धृते भूमीभरेऽस्मिंस्त्वया । धत्तां पन्नगनायको निजवधूराजीपरीरम्भताम् ॥ स्वर्गङ्गासलिलान्तरष्टककुभाऽन्तेऽपि द्विपाः सन्ततम् । कुर्वन्तु प्रमुदान्वितां स्वकरिणीवर्गेण केलिं समम् ॥१०२॥ [ वंशस्थवृत्तम् ] जगत्त्रयेऽस्मिञ्जगडूयशः श्रिया, व्यचिन्तयन्निर्मलिते हरिर्ह्यदः । मम द्विपं वाजिनमप्यमुञ्च कः, सुरारिस्त्राहरदुग्रविक्रमः ॥१०३॥ ४३ १. वराहे, तन्नाम्नि विष्णोस्तृतीयावतार इत्यर्थः । २ तन्नाम्नि विष्णाद्वितीयावतार इत्यर्थः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy