________________
४२
श्रीजगडूचरितं महाकाव्यम् [अनुष्टुभ्वृत्तम्] एकभूभृत् समुद्धर्ता, श्रूयते हि चतुर्भुजः । सर्वभूभृत् समुद्धारी, जैगडूर्द्विभुजोऽप्यहो ॥९४॥ शक्रादिकसुरा गौणी, दधते लोकपालताम् । वस्तुतः सोलतनये, लोकं पालयति स्फुटम् ॥१५॥
1 [वसन्ततिलका] त्रातैकपन्नगकुलेन पतत्त्रिनाथाज्जीमूतकेतुतनयेन किमस्य साम्यम् । दुर्भिक्षदैत्यवदनादखिलां धरित्रीम्, संरक्षतः सुकृतिनः किल सोलजस्य ॥९६।।
[स्त्रग्धरावृत्तम्] किं विष्णुः किं विरञ्चिः किमुत पशुपतिः पावकः किं मरुत् किम् । किं शक्रः किं कुबेरः फणिपतिरपि किं किं नैर्ऋत: किं यमः किम् ॥ किं कूर्मः किं प्रचेता वहति भुवमिमा-मन्तकालेऽतिघोरे । नैवं नैवं न चैवं प्रियसखि ! विजये सोलजस्तां पिपति ॥९७||
सा कामगव्यपि निशम्य तवोरुदानकीर्ति सुमेरुशिखरे धुवधूप्रगीताम् । अत्यन्तमत्सरवती ददते न दुह्यमाना स्ववाञ्छितफलानि सुखजस्य ॥९८॥
. १. त्वचि सारो यस्य स वंशतुल्य इत्यर्थः । २. विष्णुपक्षे भूभृच्छब्देन गोवर्धननामा पर्वतो ग्राह्यः । ३. जगडूपक्षे राजशब्दो ग्राह्यः । ४. गरुडात् । ५. वरुणः।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org