SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सकलजनसज्जीवनो नाम षष्ठः सर्गः ताम्रपत्रस्थितान् वर्णान् पार्थिवस्त्वित्यवाचयत् । जगडूः कल्पयामास रङ्कार्थं हि कणानमून् ॥८७॥ जगौ वीसलदेवाय, जगडूरिति पर्षदि । तन्मे पापं म्रियन्ते चे-ज्जना दुर्भिक्षपीडिताः ॥८८॥ ददावष्टसहस्राणि स तस्मै कणमूटकान् । श्रीमालान्वयकोटीरस्- त्रिधा वीरत्वमाश्रितः ॥८९॥ सोमेश्वरप्रभृतय- स्तत्र सर्वे कवीश्वराः । जगडूकं जगत्स्तुत्यं वर्णयामासुरुच्चकैः ॥९०॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥ श्रीश्रीमालकुलोदयक्षितिधरालङ्कारतिग्मद्युतिः । प्रस्फूर्जत्कलिकालकालियमदप्रध्वंसदामोदरः रोदःकन्दरवर्तिकीर्तिनिकरः सद्धर्मवल्लीदृढत्वक्सारो जगडूश्चिरं विजयतां सर्वप्रजापोषणः ॥९१॥ पाताले क्षिपता बलिं मुरजिता किं साधु चक्रेऽमुना । रुद्रेणापि रतेः पतिञ्च दहता का कीर्तिरत्रार्जिता । दुर्भिक्षं क्षितिमण्डलक्षयकरं भिन्दन् भृशं लीलया ॥ स्तुत्यः साम्प्रतमेक एव जगडूरुद्दामदानोद्यतः ॥९२॥ [ शिखरिणी ] परं ब्रह्म ब्रह्मा स्मरति परिमुक्तान्यविषयः । प्रकामं श्रीकण्ठः क्षितिधरसुताश्लेषरसिकः ॥ श्रियः कृत्वोत्सङ्गे स्वपिति चरणौ विष्णुरुदधौ । समुद्धर्तुं लोकं जगति खलु जागर्ति जगडूः ॥ ९३ ॥ १. दानदयायुद्धेषु वीरत्वं प्राप्त इत्यर्थः । २. कालियनामा सर्पविशेषः । Jain Education International 2010_02 ४१ For Private & Personal Use Only www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy