________________
४०
श्रीजगडूचरितं महाकाव्यम् श्रीमद्वीसलदेवोऽपि, तदानीं कणवर्जितः । अजूहवन्नागडेन, मन्त्रिणा सोलनन्दनम् ॥७७॥ व्यवहारिजनश्रेणी-संश्रितोऽथ नरेश्वरम् । दिव्यरत्नोपदापाणिस्-तमानमदयं गुणी ॥७८॥ लक्ष्मीप्रदायिभिः सर्वै-लक्षणैर्युक्तविग्रहम् । तमालोक्य महीकान्तः, स्वस्य चेतसि विस्मितः ॥७९॥ अत्रान्तरे महीभर्तु-श्चित्ताकूतविधि ततः । विज्ञाय चारणः कश्चि-दित्यूचेऽद्भुतधीनिधिः ॥८०॥ सोलपुत्र ! भवत्तुल्यं, पुण्यं नोऽन्यस्य विद्यते । नृवामकुक्षौ कः पश्येत्, कर्बुरान्त्रं प्रविश्य च ॥८॥ इति तद्वचसा प्रीत-श्चौलुक्यपृथिवीपतिः । व्यवहारिवरं प्रोचे, जगडूकं कथञ्चन ॥८२॥ सप्तात्र कणकोष्ठौकाः, शतानि तव निश्चितम् । श्रुत्वा मया त्वमाहूतः, साम्प्रतं कणकाङ्क्षिणा ॥८३॥ इति राज्ञो वचः श्रुत्वा, स्मित्वासौ सोलसम्भवः । ऊचे नाथ ! न सन्त्यत्र, मम क्वापि कणाः खलु ॥८४|| मद्वाक्ये यदि सन्देहः, कणकोष्ठेषु तेष्वपि । इष्ट[ष्टि]कान्तःस्थसत्ताम्र-पत्रवर्णान् विलोकय ॥८५।। इत्युदीर्य महीशाय, जगडूः कणकोष्ठगाः । ... इष्ट[ष्टि]का ध्रुवमानाय्य, भञ्जयामास हेलया ।।८६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org