________________
सकलजनसज्जीवनो नाम षष्ठः सर्गः
द्वीन्द्वग्निचन्द्रवर्षेषु, व्यतीतेष्वथ विक्रमात् । दुर्भिक्षं सर्वदेशेषु, भावि वर्षत्रयावधि ॥६७॥ प्रेष्याखिलेषु देशेषु, विदग्धानात्मपूरुषान् । सर्वेषामपि धान्यानां, त्वं तैः कारय संग्रहम् ॥६८॥ क्षीरोदवीचिविमलं, त्वमर्जय यशोभरम् । समग्रजगतीलोक-सञ्जीवननिदानतः ॥६९॥ इत्थं परमदेवस्य, सूरीन्द्रस्य वचः शुचि । पीठदेवनृपाराति-स्तथेति प्रत्यपद्यत ॥७०॥ अथो समग्रराष्ट्रेषु, प्रेष्य द्रव्याञ्चितान् नरान् । सङ्ग्रहं सर्वधान्यानां, कारयामासिवानयम् ॥७१।। सूरीन्द्रगदिते तस्मिन्, सम्प्राप्ते समये ततः । जलदा जगतीपीठे, वृष्टिं नैव वितेनिरे ॥७२॥ प्रचक्रमे कणान् दातु-मयं सोलतनूभवः । दुर्भिक्षपीड्यमानायै, जनतायै कृपानिधिः ॥७३॥ इतरेष्वपि देशेषु, जनसञ्जीवनोद्यतः । धान्यदानं स्वपुरुषैः, प्रावीवृतदयं ततः ॥७४॥ वर्षद्वये सदुर्भिक्षे, व्यतीतेऽथ कथञ्चन । कोष्ठागारकणाः सर्वे, प्रक्षीणाः पृथिवीभुजाम् ॥७५॥ दुर्भिक्षस्य तथा कापि, स्फूतिरासीद्यथा जनैः । एकस्माद्रम्मतः प्राप्ता-श्चणकाश्च त्रयोदश ॥७६।।
१. सं० १३२१ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org