SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीजगडूचरितं महाकाव्यम् शङ्केश्वरजिनाधीश-रूप्यपादद्वयाञ्चितम् । गुर्वर्थं कारयामास, रिरीचैत्यं स सुन्दरम् ॥५७॥ गुरोः पौषधशालायां, विशालायां स धीरधीः । अथ शुल्वमयं पढें शयनार्थमचीकरत् ।।५८॥ सूरेः परमदेवस्य, शिष्यं श्रीषेणसंज्ञितम् । स्थापयामास चाचार्य-पदे कृतमहोत्सवः ॥५९।। मद्वंश्यसन्ततेरेवा-चार्यसंस्थापनामहः । त्वदादेशवशादुच्चैरन्वये तव जायताम् ॥६०॥ धर्माधारस्य तस्येति, वचनं भक्तिपेशलम् । ऊरीचकार सूरीन्द्र-स्त्रिकालज्ञानवानसौ ॥६१।। (युग्मम्) प्रादुर्बभूव यत्रास्य, पुरत: सुस्थितामरः । तत्र वारिनिधेस्तीरे, स देवकुलिकां व्यधात् ॥६२॥ मैसीतिं कारयामास, खीमलीसंज्ञितामसौ । भद्रेश्वरपुरे म्लेच्छ-लक्ष्मीकारणतः खलु ॥६३|| शतशः कारयामास, ग्रामे ग्रामे पुरे पुरे । सुधास्वादुजला वापी-जगडूः क्षितिभूषणम् ॥६४॥ चौलुक्यनृपचक्रेण, मुद्गलान् स निरर्गलान् । विजित्य जगति स्वास्थ्यं, व्यतनोदतिविक्रमः ॥६५॥ सूरिः परमदेवोऽथ, सर्वागमविशारदः । एकान्ते जगडूकाय, कथयामासिवानिति ॥६६॥ १. पीतलमयचैत्यम् । २. ताम्रमयं । ३. मस्जीद । ४. मोगलोने । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy