________________
३७
सकलजनसज्जीवनो नाम षष्ठः सर्गः
समग्रजिनबिम्बाना-मर्चनार्थमचीकरत् । सोलात्मजः पुरे तत्र, विशाला पुष्पवाटिकाम् ॥४७॥ पुरे कपिलकोट्टाख्ये, नेमिमाधवमन्दिरे ।। शीर्णे कालवशेनैष, समुद्दधे महाशयः ॥४८॥ कुनडाख्यपुरे रम्ये, हरिशङ्करमन्दिरे । समुद्दधार पुण्यात्मा, जगडूर्जगदतिहृत् ॥४९।। प्रासादमादिनाथस्य, ढङ्कायां पुरि सुन्दरम् । नवीनं कारयामास, यशोमत्याः पतिस्ततः ॥५०॥ चतुर्विंशतितीर्थेशालयं चारुमरीरचत् । प्रासादं वर्द्धमानाख्ये, नगरे स नगोत्तमम् ॥५१॥ मम्माणिकानावमयं, बिम्बं वीरजिनेशितुः । तत्र न्यवीविशच्चैष, महोत्सवपुरस्सरम् ॥५२॥ शतवाटीपुरे चैष, द्वापञ्चाशज्जिनालयम् । कारयामास नाभेयप्रभोः प्रासादामुत्तमम् ॥५३॥ विमलाचलशृङ्गे स, श्रीनाभेयपवित्रिते । सप्तैव देवकुलिका, रचयामासिवाशुभाः ॥५४॥ सुलक्षणपुरासन्ने, ग्रामे देवकुलाभिधे । प्रासादं शान्तिनाथस्य, व्यरीरचदसौ कृती ॥५५॥ गुरौः परमदेवस्य, सूरेः पुण्यमहोदधेः । अथ पौषधशाला स, भद्रेश्वरपुरेऽकरोत् ॥५६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org