________________
.
सकलजनसज्जीवनो नाम षष्ठः सर्गः
- [अनुष्टुभ्वृत्तम्] तं चौलुक्यकुलोत्तंसं, विशाम्पतिमयं सुधीः । उपदीकृतरत्नौघोऽणहिल्लनगरेऽनमत् ॥२७॥ तस्य प्रसादमासाद्य, प्रमोदोत्फुल्ललोचनः । सङ्घयात्रां चिकीरेष, भद्रेश्वरपुरं ययौ ॥२८॥ महेभ्या जिनतत्त्वज्ञा-स्तमन्वीयुः सहस्रशः । तीर्थयात्रोद्यतं शक्रं, सामानिकसुरा इव ॥२९॥ सूरिः परमदेवोऽथ, शुभलग्ने विनिर्ममे । सङ्घाधिपत्यतिलकं, जगडूकस्य मञ्जुलम् ॥३०॥ प्रयाणेऽमुष्य सङ्घस्य, नेदुस्तूर्याण्यनेकशः । सूचयन्तीव धर्मस्य राज्यकालं कलिं प्रति ॥३१॥ चतुर्विधोऽपि सङ्घोऽथ, भद्रेश्वर-पुरातनात् । निरियाय शुचिर्धर्मो, मुनीश्वरमुखादिव ॥३२॥ राकाचतुर्दशीपक्ष-सम्भूतैर्भूरिसूरिभिः । स सङ्घः शुशुभे गङ्गा-यमुनौधैरिवार्णवः ॥३३॥ स्वकुलस्येव सत्पुत्राः, संयमस्येव साधवः । अथोहुः सङ्घशकट-वातस्य वृषभा भरम् ॥३४॥ हेषाभिस्तु तुरङ्गाणां, वारणानां किलारवैः । रथानामपि चीत्कारै-(जास्फोटैर्भुजाभृताम् ॥३५॥ नेग्नानां षट्पदध्वानै-रुलूलैमिचक्षुषाम् । सङ्के चलति तस्याऽभू-च्छब्दाद्वैतमयं जगत् ॥३६।। (युग्मम्)
१. मल्लानाम् । २. बन्दिजनानां । ३. छप्पय छप्पा इति काव्यरचनाविशेषध्वनिभिः । ४. कोलाहलैः । ५. नारीणाम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org