SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सकलजनसज्जीवनो नाम षष्ठः सर्गः [अनुष्टुभ्वृत्तम्] इतश्च पूर्णिमापक्षो-द्योतकारी महामतिः । श्रीमान् परमदेवाख्यः, सूरि ति तपोनिधिः ॥१॥ श्रीशवेश्वरपार्श्वस्या-देशमासाद्य यः कृती । आचाम्लवर्धमानाख्यं, निविघ्नं विदधे तपः ॥२॥ अघोषशतवर्षेषु, व्यधिकेषु च विक्रमात् । मार्गशीर्षस्य शुक्लायां, पञ्चम्यां श्रवणे च भे ॥३॥ कटपद्राभिधे ग्रामे, देवपालस्य वेश्मनि । आचाम्लतपसश्चक्रे, पारणं यः शुभाशयः ॥४॥ (युग्मम्) प्रबोधं सप्तयक्षाणां, सङ्घविघ्नविधायिनाम् । शद्धेशपार्श्वभवने, यश्चकार कृपापरः ॥५॥ तस्यैवाराधनं कृत्वा, चारित्रश्रीविभूषितः । राज्ञो दुर्जनशल्यस्य, कुष्ठरोगं जहार यः ।।६।। भूपो दुर्जनशल्योऽपि, यस्यादेशमवाप्य सः । शद्धेशपार्श्वदेवस्य, समुद्दधे च मन्दिरम् ।।७।। १. अघोषशब्दोऽत्र त्रयोदशसंख्यावाचको ज्ञेयः अतः संवत् १३०२ । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy