________________
३१
पीठदेवनरपतिदर्पदलनो नाम पञ्चमः सर्गः स पीठदेवः परिमुच्यमानं, न स्थातुमीशः क्वचिदस्य भीत्या । अनेन साकं रचयाञ्चकार, सन्धि गरीयस्तरविक्रमेण ॥३७|| गतस्तदाकारणतस्तदानीं, तत्रैष भूपो गलितोरुतेजाः । अवाप सन्मानविधीन् विधिज्ञात्-तस्मादथो सोलकुलावतंसात् ॥३८॥
__ [उपेन्द्रवज्रावृत्तम्] स्वकारितं रुद्रगिरिप्रकाशं, परिस्फुरत्सत्परिखाभिरामम् । अदीदृशत् तत्र नृपाय दुर्ग, स पीठदेवाय च कालवेदी ॥३९॥
[उपजातिवृत्तम्] सुवर्णशृङ्गद्वयशोभमानं, खरं स्वमात्रा कलितं विलोक्य । दुर्गेककोणे स नितान्तदुःखात्-प्राणानमुञ्चन् मुखवान्तरक्तः ॥४०॥
[स्वागतावृत्तम्] पीठदेवनृपतेनिधनत्वं, संनिशम्य किल सिन्धुमहीशः । भूरिभीतिकलितो जगडूकं, मानदानविधिना पृणति स्म ॥४१॥
[स्रग्धरावृत्तम्] हेम्नः शृङ्गे सुचङ्गे खरशिरसि समारोप्य य: कारयित्वा, दुर्गं भद्रेश्वरे श्रीलवणनरपतेस्तत्र चानीय मानी । षट्त्रिंशत् क्षत्रवंशप्रभवभटजनश्रेणिमोजोभिरामां, निर्मानं पीठदेवं व्यधित स जगडूरेव सत्यप्रतिज्ञः ॥४२॥ इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचञ्चरीकशिष्यश्रीसर्वाणन्दसूरिविरचिते जगडूचरिते महाकाव्ये पीठदेवनरपतिदर्पदलनो नाम
पञ्चमः सर्गः ॥५॥
१. मानरहितम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org