________________
श्रीजगडूचरितं महाकाव्यम् त्रिगुणितहरिदश्व ! क्षत्रियस्फारवंशप्रभवभटकुलं मे देहि वासाय तत्र ॥३०॥
[शार्दूलविक्रीडितवृत्तम्] श्रीचौलुक्यकुलाम्बरद्युतिपतेरादाय तस्मादथो, प्रीताच्छीलवणप्रसादनृपतेरुद्दामसद्विक्रमम् । सर्वक्षत्रियवंशसम्भवकुलश्रेणीसनाथं बलम्, श्रीभद्रेश्वरमाससाद नगरं सोलात्मजः सत्त्ववान् ॥३१॥ भद्रेश्वरे श्रीलवणप्रसाद-भूमीशसैन्येन विराजमानम् । ततस्तमाकर्ण्य च पीठदेवः निजं क्वापि विमुच्य नष्टः ॥३२।।
[उपजातिवृत्तम्] प्रचक्रमे कारयितुं स दुर्ग-मुग्रजाग्रत्तरबाहुवीर्यः । दुर्गोपरिष्टान्निशि भङ्गकर्तु-रसूत्रयद्भद्रसुरस्य सद्म ॥३३॥
[शालिनीवृत्तम्] सर्वं सैन्यं प्राहिणोद् भूमिभत्रे, सोऽयं तेजोधिक्कृतारातिजातिः । षड्भिर्मासैस्तत्र जाते च दुर्गे, संरक्ष्यान्यक्षत्रियाणां कुलानि ॥३४॥
[उपजातिवृत्तम्] दुगैंककोणे घटयाञ्चकार, खरं स पाषाणमयं सशृङ्गम् । अध:परिस्थापितपीठदेव( वं)-मातृप्रसङ्गेन विराजमानम् ॥३५॥ विभूषयामास खरस्य शृङ्गे, स भूयसा सुन्दरकाञ्चनेन । निजप्रतिज्ञापरिपूरणाय, कुर्वीत मानी हि गुरुप्रयत्नम् ॥३६॥
१. १२-द्वादश अश्व-सूर्य ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org