SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पीठदेवनरपतिदर्पदलनो नाम पञ्चमः सर्गः अर्णोराजनरेन्द्रसम्भव भवत्प्रौढप्रतापारुणं, सर्वत्रोदयशालिनं क्षितितले चास्तेन संवर्जितम् । दर्श दर्शमतीवकातरहृदो न द्वेषिणः कर्हिचिच्छन्नं छन्नपलायनैकमतयोप्यङ्घ्रीन् विमुञ्चन्ति ते ॥२४॥ [ वैतालीयवृत्तम् ] पृथिवीं त्वयि शासति प्रभो, निखिलारातिविघातकारके । कुशलस्य हि का कथोच्यतां, ममगोत्रेऽपि च भद्रमन्दिरे ||२५|| [ उपजातिवृत्तम् ] त्वया समग्रा रिपुभूमिपाला, विनिर्जिता भूरिबलान्वितेन । तथापि चैकस्तव पीठदेवो, मन्येत नाज्ञां कलितोरुमन्युः ||२६|| लोकप्रमोदाय कृतोदयेन, निरन्तरस्फारतरप्रभेण । स घूकवद्भास्करसन्निभेन त्वया स संस्पर्द्धत एव देव ! ||२७|| चौलुक्यवंशाभरणेन राज्ञा, श्रीभीमदेवेन स कारितं प्राक् । आपातयद् भद्रपुरस्य दुर्गं, सरितटं वा सलिलप्रवाहः ॥२८॥ [ मालिनीवृत्तम् ] यदि खरशिरसि स्याच्छृङ्गयुग्मं कदाचिद्विरचयसि तदा त्वं दुर्गमत्राभिरामम् । इति वचनमवादीन् मां प्रति प्रौढदर्पावगणितपरभूपः पीठदेवस्तरस्वी ॥२९॥ अहमपि निजसन्धापालनाय प्रकामं, क्षितिधव ! तव पार्श्वे शीघ्रमभ्यागतोऽस्मि । Jain Education International 2010_02 For Private & Personal Use Only २९ www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy