________________
२८
श्रीजगडूचरितं महाकाव्यम् निजप्रतिज्ञापरिपालनायो-पदां गृहीत्वायमथ प्रशस्ताम् । गत्वाणहिल्ले च पुरे ननाम, नरेश्वरं श्रीलवणप्रसादम् ॥१६॥ नृपः स चौलुक्यकुलैकदीप-स्तमानमन्तं भृशमालिलिङ्ग । न्यवीविशत् स्वस्य समीप एव, वरासने दर्शितसत्प्रसादम् ॥१७॥
[उपेन्द्रवज्रावृत्तम्] अतो मुखेन्दुद्युतिवर्धमान-समग्रसभ्यप्रमदाम्बुराशिः । नरेश्वरः प्रीणयात स्म वाचा, सुधाकिरा सोलसुतं किलेति ॥१८॥
[उपजातिवृत्तम्] कच्चित्कुले सकले समस्ति, क्षेमं कृतिन् भद्रपुरे वरे वा । अस्मिन्निदेशेन विनाप्यकस्मा-त्कृतः किमर्थं भवतागमोऽत्र ।।१९।। मुमुक्षुचेतः सुसमाधिनेव, धरातलं मेरुमहीभृतेव । राज्यं त्वयैकेन मम स्थिरं वै, विराजते सद्गुणराजमान ! ॥२०॥ हृदि प्रमोदं नितरां दधानः, प्रशस्तधीभूमिभृतो निशम्य । इत्थं गिरं सर्वसभासमक्षं, रत्नाकरावाप्तवरो जगाद ॥२१॥ चौलुक्यवंशार्णवपूर्णचन्द्र ! त्वत्खड्गधारायमुनाजलौघे । असूनरीणां निवहो विहाय, दुरापमासादयति धुभोगम् ॥२२॥
[शार्दूलविक्रीडितवृत्तम्] देव श्रीलवणप्रसाद ! भवतः स्फूर्जात्प्रतापानिले, क्रूरारातिकुलाटवीचयपरिप्लोषेण क्लृप्तोदये । क्षोणीमण्डलवर्तिनि स्फुटमिदं चित्रं महत् सर्वदा, लोकः प्रत्युत भूरितापरहितो येनैष सञ्जायते ॥२३॥
१. कच्चिदिति कुशलप्रश्ने । २. स्वर्गवैभवम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org