________________
पीठदेवनरपतिदर्पदलनो नाम पञ्चमः सर्गः श्रीपीठदेवो नृपतिर्मदीय-मुखेन वक्तीति भवन्तमुच्चैः । शृङ्गद्वयं चेत् खरमूनि भावि, तदा विधातासि च वप्रमत्र ॥८॥ तस्येति वाक्यं स निशम्य धीमाञ्-जजल्प चानल्पमहोभिरामः । खरस्य शृङ्गे विरचय्य मूलि, दुर्गं करिष्ये विहितप्रयत्नः ॥९॥ वाग्मी स भूयोऽपि जगाद वाक्यं, द्रव्याभिमानेन गरीयसा त्वम् । कृत्वा मदीशेन समं विरोधं, कुलक्षयं किं कुरुषे वृथैव ॥१०॥ कः स्पर्द्धमानोऽतिमहस्विनाऽऽप, साकं क्वचिन् मङ्गलतां धरायाम् । पश्य प्रदीपस्य विभां विलोक्य, पतन्पतङ्गो लभते विनाशम् ॥११॥ येनाखिलानां रिपुपार्थिवानां, प्रचण्डदोर्दण्डभृतां क्षणेन । हृतः प्रतापस्त्रपते प्रभुमें, त्वया स सार्द्ध कलिवार्तयोच्चैः ॥१२॥
[उपेन्द्रवज्रावृत्तम्] विमुञ्च तदुर्गविधानहेतोः, प्रयत्नतां मत्प्रभुवाक्यतस्त्वम् । स्वबन्धुवर्गेण विराजमानः, कुरुष्व शश्वत् कमलोपभोगम् ॥१३॥
[ उपजातिवृत्तम्] इति ब्रुवन्तं जगडूरुवाच, दूतं जनाकूतविधि प्रवीणः । दुर्ग नवीनं किल कारयिष्ये, भवत्प्रभोर्भीर्मम नास्ति कापि ॥१४॥ ततः स दूतः पुरुहूतभासा, तिरस्कृतस्तेन नितान्तमेव । गत्वा स्वभर्तुः पुरतो जगाद, दीनाननस्तत्खलु सर्ववृत्तम् ॥१५।।
-
१. पुरुहूतेन इन्द्रेण तुल्या भाः कान्तिर्यस्य स तेन ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org